पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 93

स्वदृढक्षयेण वण प्रकल्पयेत्प्राग्वदव यथा।
एवं तद्द्वययोरप्युभ्यं साम्यं फलं भवेद्यदि चेत् ॥ २१०॥

प्रकल्पनंष्टवणों गुलिकाभ्यां निश्चयौ भवतः ।
न चेत्प्रथमस्य तदा किञ्चिन्यूनाधिकौ क्षयौ कृत्वा ॥ २११ ॥

तत्क्षयपूर्वक्षययोरन्तरिते शेषमत्र संस्थाप्य।
त्रैरशिकविधिलब्धं वर्णं तेनोनिताधिकौ स्पष्टौ॥ २१२ ॥

अत्रोद्देशकः ।

खर्णपरीक्षकवणि परस्परं याचितौ ततः प्रथमः ।
अर्ध प्रादात् तामपि गुलिकां वसुवर्ण आयोज्य।। २१३ ॥

वर्णदशकं करोमीत्यपरोऽवादीत् त्रिभागमात्रतया।
लब्धे तथैव पूर्ण द्वादशवर्ण करोमिं गुलिकाभ्याम् । २१४ ॥

उभयोः सुवर्णमाने वर्षों सञ्चिन्त्य गणेततवज्ञ ।
सौवर्णगणितकुशले यदि तेऽसि निगद्यतामाशु ॥ २१५ ॥

इति मिश्रकव्यवहारे सुवर्णकुट्टीकारः समाप्तः ॥



विचित्रकुट्टीकारः ।

इतः परं मिश्रकव्यवहारे विचित्रकुट्टीकारं व्याख्यास्यामः।

सत्यानृतसूत्रम्--

पुरुषाः सैकेष्टगुणा द्विगुणेष्टोना भवन्त्यसत्यानि ।
पुरुषकृतिस्तैरूना सत्यानि भवन्ति वचनानि ॥ २१६ ॥

अत्रोद्देशकः।

कामुकपुरुषाः पच हेि वश्यायाश्च प्रयास्त्रयस्तत्र ।
प्रत्येकं सा जूते त्वमिष्ट इति कानि सत्यानि ॥ २१७ ॥