पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 101

राशद्येशांनांत्रसप्तर्भागान्वितस्स एव पुनः ।
मूलं यच्छति कोऽसौ कथय विचिन्त्याशु तं गणक ॥ २७८(१/२) ॥

इष्टसङ्ख्याहनियुक्तवर्गमूलानयनसूत्रम्--

उद्दिष्टो यो राशिस्वर्घछतवर्गितोऽथ रूपयुतः ।
यच्छति मूलं स्वेष्टात्संयुक्ते चापनीते च ॥ २७९(१/२) ॥

अत्रोद्देशकः ।

दर्शभिस्सम्मिश्रोऽयं दशभिस्तैर्वर्जितस्तु संशुद्धम् ।
यच्छति मूलं गणक प्रकथय सञ्चिन्त्य राशिं मे ।। २८०(१/२) ।।

इष्टवर्गीकृतराशिद्वयादिष्टम्नादन्तरमूलादिष्टानयनसूत्रम्--

सैकेटच्येकेटावर्धकृत्याथ वर्गितौ राशी ।
एताविष्टस्रावथ तद्विश्लेषस्य मूलमिष्टं स्यात् ॥ २८१(१/२) ॥

अत्रोद्देशकः ।

यौकौचिद्वर्गातराश गुणितौ तु सैकसप्तत्या ।
सद्विश्लेषपदं स्यादेकोत्तरसप्ततिश्च राशी कौ ।।
विगणय्य चित्रकुट्टकगणितं यदि वेत्सि गणकं मे ब्रूहि ॥ २८३ ॥

युतहीनप्रक्षेपकगुणकारानयनसूत्रम्--

संवर्गितेष्टशेषं द्विष्टं रूपेष्टयुतगुणाभ्यां तत् ।
विपरीतभ्यां विभजेत्प्रक्षेपौ तत्र हीनौ वा ॥ २८४ ॥

अत्रोद्देशक ।
त्रिक पञ्चकसंवर्गः पञ्चदशाष्टादशौव चेष्टमपि।
इष्टं चतुर्दशात्र प्रक्षेपः कोऽत्र हानिव ॥ २८५ ॥