पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 गणितसारसङ्ग्रहः

विषमबाणैस्सूणीरबाणपरिधिकरणसूत्रम् –-

परिणाहस्त्रिभिरधिको दलित वर्गीकृतास्त्रिभिर्भक्तः ।
सैक१शरास्तु परिधेरानयने तत्र विपरीतम् ॥ ३२३(१/२) ॥

अत्रोद्देशकः ।

नव परिधिस्तु शराणां सङ्ख्या न ज्ञायते पुनस्तेषाम् ।
युत्तरदशबाणास्तत्परिणाहशरांश्च कथय मे गणक ॥ ३२९(१/२) ॥

श्रेढीबद्धे इष्टकानयनसूत्रम्--

तरवग रूपोनस्त्रिभिर्विभक्तसरेण सङ्गणितः ।
तरसङ्कलिते वेष्टप्रताडिते मिश्रतः सारम् ॥ ३३०(१/२) ॥

अत्रोद्देशकः ।

पञ्चतरेकनाथं व्यवघटित गणितविन्मिने ।
समचतुरश्रश्रेढी कतीष्टकास्स्युर्ममाचक्ष्व || ३३१(१/२) ॥

नन्द्यावर्ताकारं चतुस्तराः षष्टिसमघटिताः ।
सर्वेष्टकाः कति स्युः श्रेढीबढं ममाचक्ष्व ॥ ३३२(१/२) ॥

छन्दश्शास्त्रोक्तषट्प्रत्ययानां सूत्राणि

समदलविषमरवरूपं द्विगुणं वर्गीकृतं च पदमङ्ख्या ।
सङ्ख्या विषमा सैका दलनो गुरुरेव समदलतः ॥ ३३३(१/२) ॥

स्याङघुरेवं तपशः प्रस्कारोऽयं विनिर्दिष्टः ।
नष्टाङ्कार्थं लघुरथ तत्सैकदले गुरुः पुनः पुनः स्थानम् ॥ ३३४(१/२) ॥

रूपादिगुणोत्तरतस्तद्दिष्टे लाङ्कसंयुतिः सैका ।
एकाद्यद्येकोत्तरतः पंदेसूध्धर्यतः क्रमोक्रमशः ॥ ३३५(१/२) ॥