पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

112 गणितसारसङ्ग्रहः

वृत्तक्षेत्रफलानयनसूत्रम्--

त्रिगुणीकृतविष्कम्भः परिधिव्यसार्धवर्णराशिरयम् ।
त्रिगुणः फलं समेऽर्धे वृत्तेऽर्धे प्राहुराचार्याः ॥ १९ ॥

अत्रोद्देशकः ।

व्यासोऽष्टादश वृत्तस्य परिधिः कः फलं च किम् ।
व्यासोऽष्टादश वृत्तार्धे गणितं किं वदाशु मे ॥ २० ॥

आयतवृत्तक्षेत्रफलानयनसूत्रम्--

व्यासार्धयुतो द्विगुणित आयतवृत्तस्य परिधिरायामः ।
विष्कम्भचतुर्भागः परिवेषहतो भवेत्सारम् ॥ २१ ॥

अत्रोद्देशकः ।

क्षेत्रस्यायतवृत्तस्य विष्कम्भो द्वादशैव तु ।
आयामस्तत्र षट्त्रिंशत् परिधिः कः फलं च किम् ॥ २२ ॥

शंक्वाकारवृत्तस्य फलानयनसूत्रम्--

वदनाधनो व्यासस्त्रिगुणः परिधिस्तु कम्बुकाधत्ते ।
वलयार्धकृतियंशो मुरवधुवर्गत्रिपादयुतः ॥ २३ ॥

अत्रोद्देशकः ।

व्यासोऽष्टादश हस्ता मुरवविस्तारोऽयमपि च चत्वारः ।
कः परिधिः किं गणितं कथय त्वं कस्बुकावृत्ते ॥ २४ ॥

निम्नोन्नतवृत्तयोः फलानयनसूत्रम्--

परिधेश्च चतुर्भागो विष्कम्भगुणः स विद्धि गणितफलम् ।
चत्वाले कूर्मनिभे क्षत्रे निम्नोन्नते तस्मात् ॥ २५ ॥