पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 गणितसारसङ्ग्रहः

जन्यव्यवहारः

इतः परं क्षेत्रगणिते जन्यव्यवहारमुदाहरिष्यामः ।
इष्टसङ्ख्याबीजाभ्यामायतचतुरश्रक्षेत्रानयनसूत्रम्--

वर्गविशेषः कोटिसंबगों द्विगुणितो भवेद्वाहुः ।
वगेसमासः कर्णश्चायतचतुरश्रजन्यस्य ॥ ९०(१/२) ॥

अत्रोद्देशकः ।

एकविके तु बीजे क्षेत्रे जन्ये तु संस्थाप्य।
कथय विगणय्य शषिं कोटिभुजाकर्णमानानि ॥ ९१(१/२) ॥

बीजे हे त्रीणि सवे क्षेत्रे जन्ये तु संस्थाप्य ।
कथय विगणय्य शीषिं कोटिभुजाकर्णमानानि ॥ ९२(१/२) ॥

पुनरपि बीजसंज्ञाभ्यामायतचतुरश्रक्षेत्रकल्पनायाः सूत्रम्--

बीजयुतिवियुतिघातः कोटिस्तद्वर्गयोश्च सङ्क्रमणे ।
बाहुश्रुती भवेतां जन्यविधौ करणमेतदपि ॥ ९३(१/२) ॥

अत्रोद्देशकः

त्रिकपञ्चकबीजाभ्यां जन्यक्षेत्रं सरवे समुत्थाप्य ।
कोटिभुजाश्रुतिसङ्ख्याः कथय विचिन्त्याशु गणिततवज्ञ ॥ ९४(१/२) ॥

इष्टजन्यक्षेत्राद्वीजमंज्ञसङ्ख्ययोरानयनसूत्रम् –-

कोठिच्छेदावाप्त्योस्सङ्क्रमणे बाहुदलफलच्छेद
बीजे श्रुतीष्टकृत्योयोगवियोगार्धमूले ते ॥ ९५(१/२) ॥

अत्रोद्देशकः।

कस्यापि क्षेत्रस्य च षोडश कोटिश्च बीजे के ।
त्रिंशदथवान्यथबाहुबजे के ते श्रुतिश्चतुस्त्रिंशत् ॥ ९६(१/२) ॥