पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 गणितसारसङ्ग्रहः

आयतचतुरश्रक्षेत्रद्वये रज्जुसङ्ख्यायां सदृक्षाय सत्यां द्वितीयक्षेत्र
फलात् प्रथमक्षेत्रफले द्विगुणिते सति, अथवा क्षेत्रद्वयेऽपि क्षेत्रफल
सदृशे सति प्रथमक्षेत्रस्प रज्जुसङ्ख्याया अपि द्वितयिक्षेत्ररज्जुसङ्ख्या
यां द्विगुणायां सत्यम्, अथवा क्षेत्रद्वये प्रथमक्षेत्ररज्जुसङ्ख्याया अपि
द्वितीयक्षेत्रस्य रज्जुसङ्ख्यायां द्विगुणायां सत्यां द्वितीयक्षेत्रफलादपि ग्रंथ
मक्षेत्रफले द्विगुणे सति, तत्तत्क्षेत्रद्वयस्यानयनसूत्रम्--

स्वाल्पहृतरज्जुधनहतकृतिरिष्टघ्नैव कोटिस्स्यात् ।
व्येका दोस्तुल्यफलेऽन्यत्राधिकगणितगुणितेष्टम् ॥ १३१(१/२) ॥

व्येकं तदूनकोटिः त्रिगुणा दोः स्यादथान्यस्य ।
रवर्धवर्णराशेरिति पूर्वोक्तेन सूत्रेण ।
तद्भणितरनुमितितः समानयेत्तद्भजाकोटी ॥ १३३ ॥

अत्रोद्देशकः ।

असमव्यासायामक्षत्र हे द्वावथेष्टगुणकारः ।
प्रथमं गणितं द्विगुणं रज्जू तुल्ये किमत्र कोटिभुजे ॥ १३४ ॥

आयतचतुरश्रे द्वे क्षेत्रे द्वयमेव गुणकारः ।
गणितं सदृशं रज्जुर्द्विगुणा प्रथमात् द्वितीयस्य ॥ १३५ ॥

आयतचतुरश्रे हे क्षेत्रे प्रथमस्य धनामिह द्विगुणम् ।
द्विगुणा द्वितीयरजुस्तयोभुजां कोठिमपि कथय ॥ १३६ ॥

द्विसमत्रिभुजक्षेत्रयोः परस्पररजधनसमानसङ्ख्ययोरिष्टगुणकगुणि-
तरजुषनवतोर्वा द्विसमत्रिभुजक्षेत्रद्वयानयनसूत्रम्-–

रज्जुकृतिन्नान्योन्यधनारुपातं षट्त्रिमरुपमेकोनम् ।
तच्छेषं द्विगुणारुपं बीजे तज्जन्ययोर्युजादयः प्राग्वत् ॥ १३७ ॥

अत्रोद्देशकः ।

द्विसमत्रिभुजक्षेत्रद्वयं तयोः क्षेत्रयोस्समं गणितम् ।
रजू समे तयोस्स्यात् को कां बाहुः का भवेद्भमिः ॥ १३८ ॥