क्षेत्रगणितव्यवहारः 129
द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं द्विसङ्गुणितम् ।
रज्जुः समा द्वयोरपि को बाहुः का भवेद्भूमिः ॥ १३९ ॥
हिसमात्रिभुजक्षेत्र हैं रज्जुर्विगुणिता द्वितीयस्य ।
गणिते द्वयोस्समाने कां बाहुः का भवेद्भूमिः ॥ १४० ॥
द्विसमत्रिभुजक्षेत्रे प्रथमस्य धनं विसङ्गणितम् ।
द्विगुणा द्वितीयरज्जुः को बाहुः का भवेद्भूमिः ॥ १४१ ॥
एकद्वयादिगणनातीतसङ्ख्यासु इष्टसङ्ख्यामिष्टवस्तुनो भाग
सङ्ख्यां परिकल्प्य तदिष्टवस्तुओगसङ्ख्यायाः सकाशात् समचतुरश्र
क्षेत्रानयनस्य च समवृत्तक्षेत्रानयनस्य च समात्रिभुजक्षेत्रानयनस्य चायत-
चतुरश्रक्षेत्रनयनस्य च सूत्रम्--
स्वसमीकृतावधूतहृतधनं चतुर्न हि वृत्तसमचतुरश्रव्यासः ।
षड्गुणितं त्रिभुजायतचतुरश्रभुजार्धमपि कोटिः १४२ ॥
अत्रोद्देशकः ।
स्वान्तःपुरे नरेन्द्रः प्रसादतलं निजानामध्ये ।
दिव्यं स रनकम्बलमपीपतत्तच समवृत्तम् ॥ १४३ ॥
ताभिर्देवीभिर्युतमेभिर्मुजयोश्च मुष्टिभिर्लब्धम् ।
पञ्चदशैकस्याः स्युः कति वनिताः कोऽत्र विष्कम्भः॥ १४४ ॥
समचतुरश्रभुजाः कं समत्रिबाहौ भुजाश्चात्र ।
आयतचतुरश्रस्य हि तत्कोटिभुजो सरवे कथय ॥ १४५ ॥
क्षेत्रफलसख्यां ज्ञात्वा समचतुरश्रक्षेत्रानयनस्य चायतचतुरश्र
क्षेत्रानयनस्य च सूत्रम्--
सूक्ष्मगणितस्य मूलं समचतुरश्रस्य बाहुरिष्टहृतम् ।
धनमिष्टफले स्यातामायतचतुरश्रकोटिभुजों ॥ १४६ ॥
पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति