पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 गणितसारसङ्ग्रहः

अस्मिन् खातगणिते कर्मान्तिकसंज्ञफलं च औण्ड्रसंज्ञफलं च ज्ञात्वा
ताभ्यां कर्मान्तिकौण्ड्रसंज्ञफलाभ्यां सूक्ष्मखातफलानयनसूत्रम्--

बाह्याभ्यन्तरसंस्थिततत्तत्क्षेत्रस्थबाहुकोट्भुवः।
खप्रतिबाहुसमेता भक्तास्तत्क्षेत्रगणनयान्योन्यम् ॥ ९ ॥

गुणिताश्च वेधगुणिताः कर्मान्तिकसंज्ञगणितं स्यात् ।
तद्वाह्यान्तरसंस्थिततत्तत्क्षेत्रे फलं समानीय ॥ १० ॥

संयोज्य सङ्ख्ययातं क्षेत्राणां वेधगुणितं च ।
औण्ड्रफलं तत्फलयोर्विशेषकस्य त्रिभागेन ॥
संयुक्तं कर्मान्तिकफलमेव हि भवति सूक्ष्मफलम् ॥ ११(१/२) ॥

अत्रोद्देशकः ।

समचतुरश्रा वापी विंशतिरुपीह षोडशैव तले ।
वेधो नव किं गणितं गाणितविदाचक्ष्व मे शीघ्रम् ॥ १२(१/२) ॥

वापी समत्रिबाहुर्विंशतिरुपीह षोडशैव तले ।
वेषो नव किं गणितं कर्मान्तिकमौण्ड्रमपि च सूदमफलम् ॥ १३(१/२) ॥

समवृत्तासौ वापी विंशतिरुपीह षोडशैव तले ।
वेषो द्वादश दण्डाः किं क स्यात्कर्मान्तिकौण्ड्रसूदमफलम् ॥ १४(१/२) ॥

आयतचतुरश्रस्य त्वायामष्षष्टिरेव विस्तारः ।
द्वादश मुरवे तलेऽधं वेधोऽष्टौ किं फलं भवति ॥ १५(१/२) ॥

नवतिरशीतिः सप्ततिरायामथोर्वमभ्यमूलेषु ।
विस्तारो द्वात्रिंशत् षोडश दश सप्त वेधोऽयम् ॥ १६(१/२) ॥

यासः षाष्टिर्वदने मध्ये त्रिंशत्तले तु पञ्चदश।
समवृत्तस्य च वेधः षोडश किं तस्य गणितफलम् ॥ १७(१/२) ॥