पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खातव्यवहारः 145

त्रिभुजस्य मुखेऽशीतिः षष्टिर्मध्ये तले च पश्चात् ।
बाहुत्रयेऽपि वेधो नव किं तस्यापि भवति गणितफलम् ॥ १८(१/२) ॥

खातिकायाः खातगणितफलानयनस्य च खातिकाया मध्ये सूची
मुखाकारवत् उत्सेधे सति खातगणितफलानयनस्य च सूत्रम् -–

परिखामुखेन सहितो विष्कम्भत्रिभुजवृत्तयोस्त्रिगुणात् ।
आयामश्चतुरश्रे चतुर्गुणो व्याससङ्गणितः ॥ १९(१/२) ॥ ॥

सूचीमुखबड़ेघे परिखा मध्ये तु परिवार्धम् ।
मुरवसहितमथो करणं प्राग्वत्तलसूचिवेधे च ॥ २०(१/२) ॥

अत्रोदशकः

त्रिभुजचतुभुजवृत्तं पुरोदितं परिरवया परिक्षिप्तम् ।
दण्डाशीत्या व्यासः परिखाश्चतुरुर्विकास्त्रिवेधाः स्युः ॥ २१(१/२) ॥

आयतचतुरायामो विंशत्युत्तरशतं पुनव्यासः ।
चत्वारिंशत् परिरवा चतुरुवका त्रिवेधा स्यात् ॥ २२(१/२) ॥

उत्सेधे बहुप्रकारवति सति वातफलानयनस्य च, यस्य कस्यचित्
रवतफलं ज्ञात्वा तत्वातफलात् अन्यक्षेत्रस्य खातफलानयनस्य च सूत्रम्--

वेधयुतिः स्थानहृता वेधो मुखफलगुणः खरवातफलम् ।
त्रिचतुर्मुजवृत्तानां फलमन्यक्षेत्रफलहृतं वेघः ॥ २३(१/२) ॥

अत्रोद्देशकः ।

समचतुरश्रक्षेत्रे भूमिचतुर्हस्तमात्रविस्तारे ।
तत्रैकद्वित्रिचतुर्हस्तनिखाते कियान् हि समवेधः ॥ २४(१/२) ॥

14-A