पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खातव्यवहारः 147

वापीप्रणालिकानां विमोचने तत्तदिष्टप्रणालिकासंयोगे तज्जलेन
वाप्यां पूणायां सत्यां तत्तत्कालानयनसूत्रम्--

वापीप्रणालिकाः स्वखकालभक्ताः सवर्णविच्छेदाः।
तद्युतिभक्तं रूपं दिनांशकः स्यात्प्रणालिकायुत्या ।
तद्दिनभागहतास्ते तज्जलगतयो भवन्ति तद्वष्याम् ॥ ३३ ॥

अत्रोद्देशकः ।

चतस्रः प्रणालिकाः स्युस्तत्रैकैका प्रपूरयातं वापीम् ।
द्वित्रिचतुःपञ्चांशैर्दिनस्य कतिभिर्दिनांशैस्ताः ॥ ३४ ॥

त्रैराशिंकाख्यचतुर्थगणितव्यवहारे सूचनामात्रोदाहरणमेव ; अत्र
सम्यग्विस्तार्य प्रवक्ष्यते--

समचतुरश्रा वापी नवहस्तघना नगस्य तले।
तच्छिरवराजलधारा चतुरश्राङ्गुलसमानविष्कम्भा ॥ ३५ ॥

पतिताग्रे विच्छिन्ना तथा घना सान्तरालजलपण ।
शैलोत्सेधे वाघ्यां जलप्रमाणं च मे ब्रूहि ॥ ३६ ॥

वापी समचतुरश्रा नवहस्तघना नगस्य तले ।
अङ्गलसमवृत्तघना जलधारा नेिपांतता च तच्छखरात् ॥ ३७ ॥

अग्रे विच्छिन्नाभूत्तस्या वाप्या मुखं प्रविष्टा हि ।
सा पूर्णान्तरगतजलधरोत्सेधेन शैलस्य ।
उत्सेधं कथय सवे जलप्रमाणं च विगणय्य ॥ ३८॥

समचतुरश्रा वापी नवहरुघन नगस्य तले।
तच्छिखराजलधारा पतिताङ्गलघनत्रिकोणा सा ॥ ३९ ॥

वापीमवप्रविष्ठ साग्रे छिन्नान्तरालजलपूर्णा ।
कथय सरवे विगणय्य च गिर्युत्सेधं जलप्रमाणं च ॥ ४० ॥