पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 गणितसारसङ्ग्रहः

समचतुरश्रा वापा नवहस्तघना नगस्य तले ।
अङ्गुलविस्ताराङ्गुलखाताङ्गुलयुगलदीर्घजलधारा ॥ ४१(१/२) ॥

पतिताग्रे विच्छिन्ना वापीमुखसंस्थितान्तरालजलैः।
सम्पूर्णा स्याद्वापी गिर्युत्सेत्सेधो जलप्रमाणं किम् ॥ ४२(१/२) ॥

इति वातव्यवहारे सूक्ष्मगणितं सम्पूर्णम् ।



चितिगणितम्

इतः परं खातव्यवहारे चितिगणितमुदाहरिष्यामः । अत्र परिभाषा--

हतो दीर्घ व्यासस्तदधमङ्गलचतुष्कमुत्सेधः ।
दृष्टस्तथेष्टकायास्ताभिः कर्माणि कार्याणि ॥ ४३(१/२) ॥

इष्टक्षेत्रस्य स्वातफलानयने च तस्य रवातफलस्य इष्टकानयने च सूत्रम्--

मुरवफलमुदयेन गुण तदिष्टकागणितभक्तलब्धं यत् ।
चितिगणितं तद्विद्यात्तदेव भवतीष्टकासख्या ॥ ४४(१/२) ॥

अत्रोद्देशकः ।

वेदिः समचतुरश्रा साष्टभुजा हस्तनवकमुत्सेधः ।
घठिता तदिष्टकाभिः कतीष्टकाः कथय गणितज्ञ ।। ४५(१/२) ॥

अष्टकरसमत्रिकोणनवहस्तोत्सेधवेदिका रचिता।
पूर्वेष्टकाभिरस्य कतीष्टकाः कथय विगणय्य ।। ४६(१/२) ॥

समदुत्ताकृतिवेदिर्नवहसोध् कराष्टकव्यास ।
घटितेष्टकाभिरस्यां कतीष्टकाः कथय गणितज्ञ ॥ ४७(१/२) ॥

आयतचतुरश्रस्य त्वायामः षष्टिरेव विस्तारः ।
पञ्चकृतः षड् वेधस्तदिष्टकाचितिमिहाचक्ष्व ॥ ४८ ॥