पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

154 गणितसारसङ्ग्रहः

विषुवच्छायायुक्ते देशे इष्टच्छायां ज्ञात्वा कालानयनस्य सूत्रम्--

शङ्कुयुतेष्टच्छाया मध्यच्छायोनिता द्विगुणा ।
तदवाप्ता शङ्कुमितिः पूर्वापरयोर्दिनांशः स्यात् ॥ १५(१/२) ॥

अत्रोद्देशकः ।

द्वादशाङ्गुलशङ्खंदलच्छायाङ्गुलद्वयी ।
इष्टच्छायाष्टाङ्गलिका दिनांशः को गतः स्थितः।
च्यंशो दिनांशो घटिकाः कात्रिश्नाडिकं दिनम् ॥ १७ ॥

इष्टनाडिकानां छायानयनसूत्रम्-

द्विगुणितदिनभागहृता शङ्कमितिः शङ्कमानोना।
खुदलच्छायायुक्ता छाया तरवेष्टकालिका भवति ॥ १८॥

अत्रोद्देशकः ।

द्वादशाङ्गलशङ्कोर्छदलच्छायाङ्गुलद्वयी ।
दशानां घटिकानां मा का नृिशन्नाडिकं दिनम् ॥ १९ ॥

पदच्छयालक्षण पुरुषस्य पादप्रमाणस्य परिभाषासूत्रम्—-

पुरुषोन्नतिसप्तांशस्तत्पुरुषार्द्धस्तु देयं स्यात् ।
यद्येवं चेत्पुरुषः स भाग्यवानाङ्गिभा स्पष्ट ॥ २० ॥

आरूढच्छायायाः सङ्ख्यानयनसूत्रम्--

नृच्छायातिशङ्कभित्तिस्तम्भान्तरोनितो । भक्तः ।
नृच्छाययैव लब्धं शङ्कोभित्याश्रितच्छाया ॥ २१ ॥

अत्रोद्देशकः ।

विंशातिहसः स्तम्भो भित्तिस्तम्भान्तरं करा अर्थौ ।
पुरुषच्छाया द्विना भित्तिगता स्तम्भभा कि स्यात् ।। २२ ॥


1 Not found in any of the MSS.