पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति


छायाव्यवहारः 155

स्तम्भप्रमाणं च भित्त्यारूढस्तम्भच्छायासङ्ख्या च ज्ञात्वा
भित्तिस्तम्भान्तरसङ्ख्यानयनसूत्रम्--

पुरुषच्छायानिनं स्तम्भारूढान्तरं तयोर्मध्यम् ।
स्तम्भारूढान्तरहृततदन्तरं पौरुषी त्राया ॥ २३ ॥

अत्रदंशकः ।

विंशतिहस्तः स्तम्भः षोडश भित्याश्रितच्छाया।
द्विगुणा पुरुषच्छाया भित्तिस्तम्भान्तरं किं स्यात् ।। २४ ॥

अपराधस्योदाहरणम् ।

विंशतिहसः स्तम्भः षोडश भियाश्रितच्छाया ।
कियती पुरुषच्छाया भित्तिस्तम्भान्तरं चाष्टौ ॥ २५ ॥

आरूढच्छायायाः सङ्ख्यां च भित्तस्तम्भान्तरभूमसङ्ख्यं च
पुरुषच्छायायाः सङ्ख्यां च ज्ञात्वा स्तम्भप्रमाणसङ्ख्यानयनसूत्रम्--

नृच्छायामारूढा भित्तिस्तम्भान्तरेण सयुक्ता ।
पौरुषभाहृतलब्धं विंदुः प्रमाणं बुधाः स्तम्भे ॥ २६ ॥

अत्रोद्देशकः ।

षोडश भियारूढ़च्छाया द्विगुणेणैव पौरुषी छाया।
स्तम्भोत्सेधः कः स्यादित्तिस्तम्भान्तरं चाष्टौ ॥ २७ ॥

शङ्कप्रमाणशङ्कच्छायामिश्रविभक्तसूत्रम
शङ्कप्रमाणशङ्कच्छायामित्रं तु सैकपौरुष्या ।
भक्तं शङ्कमितिः स्याच्छङ्कच्छाया तदूनामित्रं हि ।। २८ ॥

अत्रोद्देशकः ।

शकुंप्रमाणशTङ्कच्छायामत्रं तु पचाशत् ।
शङ्कत्सेधः कः स्याच्चतुर्गुणा पौरुषी छाया ॥ २९ ॥