पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

158 गणितसारसङ्ग्रहः

शङ्कुप्रमाणमत्रापि द्वादशाङ्गुलकं गते ।
ज्ञात्वोदाहरणे सम्याग्विद्यात्सूत्रार्थपद्धतिम् ॥ ४७ ॥

पुरुषस्य पादच्छायां च तत्पादप्रमाणेन वृक्षच्छायां च ज्ञात्वा वृक्षोन्नतेः
सङ्ख्यानयनस्य च, वृक्षोन्नतिसङ्ख्यां च पुरुषस्य पादच्छायायाः
सङ्ख्यां च ज्ञात्वा तत्पादप्रमाणेनैव वृक्षच्छायायाः सङ्ख्यानयनस्य च सूत्रम्--

स्वच्छायया भक्तनिजेष्टवृक्षच्छाया पुनस्सप्तभिराहता सा ।
वृक्षोन्नतिः साद्रिहृता स्वपादच्छायाहता स्याद्द्रुमभैव नूनम ॥ ४८ ।।

अत्रोद्देशकः ।

आत्मच्छया चतुःपादा वृक्षच्छाया शतं पदाम् ।
वृक्षोच्छ्रायः को भवेत्स्वपादमानेन तं वद ॥ ४९ ॥

वृक्षच्छायायाः सङ्ख्यानयनोदाहरणम् ।

आत्मच्छाया चतुःपादा पञ्चसप्ततिभिर्युतम् ।
शतं वृक्षोन्नतिर्वृक्षच्छाया स्यात्कियती तदा ॥ ५० ॥

पुरतो योजनान्यष्टौ गत्वा शैलो दशोदयः ।
स्थितः पुरे च गत्वान्यो योजनाशीतितस्ततः ॥ ५१ ॥

तदग्रस्थाः प्रदृश्यन्ते दीपा रात्रौ पुरे स्थितैः।
पुरमध्यस्थशैलस्यच्छाया पूर्वागमूलयुक् ।
अस्य शैलस्य वेधः को गणकाशु प्रकथ्यताम् ॥ ५२(१/२) ॥

इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ छायाव्यवहारो नाम अष्टमः समाप्तः ।

समाप्तोयं सारसङ्ग्रहः ॥

---