पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
संज्ञाधिकारः

द्वे द्वे द्वावुभौ युगलयुग्मं च लोचनं द्वयम् ।

दृष्टिर्नेत्राम्बकं द्वन्द्वमभिचक्षुर्नयं दृशौ ॥ ५४ ॥

हरनेत्रं पुरं लोकं त्रै(त्रि)रत्नं भुवनत्रयम् ।

गुणो वह्निः शिखी ज्वलनः पावकश्च हुताशनः ॥ ५५ ॥

अभ्युधिर्विषधिर्वर्धिः पयोधिसागरो गतिः ।

जलधिर्बन्धश्चतुर्वेदः कषायस्सलिलाकरः ॥ ५६ ॥

इषुर्वाणं शरं शस्त्रं भूतमिन्द्रियसायकम् ।

पञ्च व्रतानि विषयः करणीयस्तन्तुसायकः ॥ ५७ ॥

ऋतुजीव रस लंख्या द्रव्यञ्च षट्कं खरन ।

कुमारवदनं वर्ण शिलीमुरवपदानि च ॥ ५८ ॥

शैलमद्रिर्भयं भूभो नगाचलमुनिर्गिरि : ।

अवश्वपन्नगा द्वीप धातुव्यसनमातृकम् ॥ ५९ ॥

अष्टौ तनुर्गजः कर्म वसु वारणपुरम् ।

द्विरदं दन्ती दिग्दुरितं नागानीकं करी यथा ॥ ६० ॥

नव नन्दं च रन्ध्रञ्च पदार्थे लधकेशवौ ।

निधिरत्नं ग्रहाणां च दुर्गनाम च सङ्ख्यया ॥ ६१ ॥

आकाशं गगनं शून्यमम्बरं रवं नभो वियत् ।

अनन्तमन्तरिक्षे च विष्णुपादं दिवि स्मरेत् ॥ ६२ ॥

अथ स्थाननामानि ।

एकं तु प्रथमस्थानं द्वितीयं दशसंज्ञिकम् ।

तृतीयं शतमित्याहुः चतुर्थं तु सहस्रकम् ॥ ६३ ॥

पञ्चमं दशसाहस्रं षष्ठं स्याल्लक्षमेव च ।

सप्तमं दशलक्षे तु अष्टमं कोटिरुच्यते ॥ ६४ ॥