पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
परिकर्मव्यवहारः 11

शशाङ्कदुवैकेन्दुशन्यैकरूपं
निधाय क्रमेणात्र राशिप्रमाणम् ।
हिमांश्वग्ररन्यैः प्रसन्ताडितेऽस्मिन्
• भवेत्कण्ठिका राजपुत्रस्य योग्या ।। १७ ॥

इति परिकर्मविधौ प्रथमः प्रत्युत्पन्नः समाप्तः ।

भागहारः ।



द्वितीये भागहारपरिकर्मणि करणसूत्रं यथा
विन्यस्य भाज्यमानं तस्याधस्स्थेन भागहारेण ।
सदृशपवर्तविधिना भागं कृत्वा फलं प्रवदेत् ॥ १८॥
अथ वा
प्रतिलोमपथेन भजेद्राज्यमधस्स्थेन भागहारेण ।
सदृशापवर्तनविधिर्यद्यस्ति विधाय तमपि तयोः ॥ १९ ।
अत्रोद्देशकः ।
दीनाराष्टसहवं द्वनवतियुतं शतेन संयुक्तम् ।
चतुरुत्तरषष्टिनरैर्भक्तं कऽशो नुरेकस्य ॥ २० ॥
रूपाग्रसप्तविंशतिशतानि कनकानि यत्र भाज्यन्ते ।
सप्तत्रिंशत्पुरुषेरेकस्यांशं ‘ममाचक्ष्व ॥ २१ ॥
दीनारदशसहखं त्रिशतयुतं सप्तवर्गसम्मिश्रम् ।
नवसप्तत्या पुरुषेर्भक्तं किं के लब्धमेकस्य ॥ २२ ॥
अयुतं चत्वारिंशच्चतुस्सहत्रैकशतयुतं ‘हेम्नाम् ।
नवसप्ततिवसतीनां दत्तं वित्तं किमेकस्याः ॥ २३ ॥


- This stanza is not found in P.

  • K स. . , " M कोंऽशो नुरेकस्य.

5 B and K हेमम्

  • This stanya is not found in P.