पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12
गणितसारसङ्गहः
सप्तदशत्रिशतयुतान्येकात्रिंशत्सहस्रजम्बूनि ।
भक्तानि नवत्रिंशन्नरैर्वदैकस्य भाग त्वम् ॥ २४ ॥
यधिकदशत्रिशतयुतान्येकत्रिंशत्सहस्रजम्बूनि ।
सैकाशीतिशतेन प्रहृतानि नरैर्वेदैकांशम ॥ २९ ॥
त्रिदशसह सैका षष्टिद्विशतीसहस्रपङ्कयुता ।
रत्नानां नवपुंसां दत्तैकनरोऽत्र किं लभते ॥ २६ ॥
एकादिषडन्तानि क्रमेण हीनानि हाटकानि सरवे ।
विधुजलधिबन्धसङ्घचैर्नरैर्हतान्येकभागः कः ॥ २७ ॥
यशीतिमिश्राणि चतुश्शतानि
चतुस्सहस्रन्ननगान्वितानि ।
रत्नानि दत्तानि जिनालयानां
त्रयोदशानां कथयैकभागम् ॥ २८ ॥
इति परिकर्मविधौ द्वितीयो भागहारः समाप्तः ।
वर्गः
तृतीये वर्गपरिकर्मणि करणसूत्रं यथा-
द्विसमवधो घातो वा स्वेटोनयुतद्वयस्य सेटकृतिः ।
एकादिद्विचयेच्छागच्छयुतिर्वा भवेद्वर्गः॥ २९ ॥


1 M reads the problem contained in this stanza thus :-
त्रिशतयुतैकत्रिंशत्सहस्रयुक्ता दशाधिकाः सप्त ।
भक्ताश्चत्वारिंशत्पुरुषेरेकोनैस्तत्र दीनारम् ॥
१ This stanza is found only in M.

  • एकद्वित्रिचतुःपञ्चषहीनाः क्रमेण सम्भक्ताः ।

सैकचतुःशत संयुतचत्वारिंशज्जनालयानां किम् ॥