पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः 21

विसदृशादसदृशगच्छसमधनानामुत्तरानयनसूत्रम्--
अधिकमुखस्यैकचयश्चाधिकमुखशेषमुखविशेषो भक्तः ।
विगतैकअदाधेन सरूपश्च चया भवन्ति शेषमुवानम् ॥ ११ ॥

अत्रोद्देशकः।

एकत्रिपञ्चसप्तनवैकादशवदनपञ्चपञ्चपदानम् ।
समांवत्तानां कथयात्तराणं गणेताब्धिपारदृश्वन् गणक ॥ ९२ ॥

अथ गुणधनगुणसङ्कलितधनयोस्सूत्रम्
पदमितगुणहतिगुणितप्रभवस्याह्नणधनं तदायूनम् ।
एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ९३ ॥

गुणसङ्कलिते अन्यदपि सूत्रम् –
समदलविषमखरूपो गुणगुणितो वर्गतडितो गच्छ ।
रूपोनः प्रभवघ्नो व्येकोत्तरभाजितस्सारम् ॥ ९४ ॥

गुणसङ्कलितान्यधनानयने तत्सङ्कलितधनानयने च सूत्रम्-
गुणसङ्कलितान्यधनं विगतैकपदय गुणधनं भवति ।
ततृणगुणं मुखोनं व्येकोत्तरभाजितं सारम् ॥ ९१ ॥

गुणधनस्यादाहरणम् ।
स्वर्णद्वयं गृहीत्वा त्रिगुणधनं प्रतिपुरं 'समार्जयति ।
यः पुरुषोऽष्टनगर्यां तस्य कियद्वित्तमाचक्ष्व ॥ ९६ ॥

गुणधनस्याद्युत्तरानयनसूत्रम् –
गुणधनमादिविभक्तं यत्पदमितवधसमं स एव चयः।
न गच्छप्रमगुणघातप्रहतं गुणितं भवेत्प्रभवः ॥ ९७ ॥

  • % समर्चयति.