पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 
24 गणितसारसङ्गहः

अत्रोद्देशकः ।

द्विमुखस्त्रिचयो गच्छश्चतुर्दश खेग्मितं पदं सप्त ।
अष्टनवषट्पञ्च च किंव्युत्कलतं समाकलय ।। १११ ॥
षडादिरष्टौ प्रचयोऽत्र षटूतिः
पदं दश द्वादश षोडशेप्सितम् ।
मुखादिरन्यस्य तु पञ्चपञ्चकं
शतद्वयं हि शतं व्ययः कियान् ॥ ११२ ॥
षडुनमानो गच्छः प्रचयोऽर्थं द्विगुणसप्तकं वक्रम् ।
सप्तत्रिंशत्वेष्टं पदं समाचक्ष्व फलमुभयम ॥ ११३ ॥
अष्टकृतिरादिरुत्तरसूनं चत्वारि षोडशात्र पदम्।
• इष्टानि तत्वकेशवरुद्रार्कपदनि कि शेषम् ॥ ११४ ॥

गुणव्युत्कलिकस्योदाहरणम्
चतुरादिद्विगुणात्मकोत्तरयुतो गच्छश्चतुर्ण छति-
देश वाञ्छापदमङ्गसिन्धुरगिरिद्रव्येन्द्रियाम्भोधयः।
कथय व्युत्कलितं फलं सकलसद्भजामिमं व्याप्तवान्
करणस्कन्धवनान्तरं गणितविन्मत्तेभविक्रीडितम् ॥ ११५ ॥

इति परिकर्मविधावष्टमं व्युत्कलितं समाप्तम् ॥

इति सारसङ्गहे गणितशास्त्रे महावीराचार्यस्य कृतौ परिकर्मनामा प्रथम व्यवहारः समाप्तः ।


  • M प्रा.