पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 37

एकांशकानामेकांशेऽनेकांशे च फले छेदोत्पत्तौ सूत्रम्--

सष्टो हारो भक्तः स्वांशेन निरग्रमादिमांशहरः ।
तद्युतिहाराप्तेष्टः शेषोऽस्मादित्थमितरेषाम् । ८० ॥

अत्रोद्देशकः ।

त्रयाणां रूपकांशTान राशीनां के हरा वद ।
फलं चतुर्थभागस्स्याच्चतुर्णा च त्रिसप्तमम् ॥ ८१ ।।

ऐकांशानामनेकांशानां चानेकांशे फले छेदोत्पत्तौ सूत्रम्-

इष्टहता दृष्टांशाः फलांशसदृशो यथा हि तद्योगः ।
निजगुणहतफलहारस्तद्धारो भवति निर्दिष्टः ॥ ८२ ॥

अत्रोद्देशकः ।

एककांशेन राशीनां त्रयाणां के हरा वद ।
द्वादशाप्त त्रयोविंशत्यशंका च युतिर्भवेत् ।। ८३ ।।

त्रिसप्तकनवांशानां त्रयाणां क हरा वद ।
यूनपञ्चाशदान त्रिसप्तत्यंशा युतिर्भवेत् ॥ ८४ ॥

एकांशशकयो राश्योरेकांशे फले छेदोत्पत्तौ सूत्र

वाञ्छाहतयुतिहारश्छेदः स व्येकवाञ्छयाप्तोऽन्यः ।
फलहारहारलब्धे स्वयोगगुणिते हरौ वा स्तः ॥ ८५ /

अत्रोद्देशकः ।

राश्योरेकांशयोश्छेद कौ भवेतां तयोर्युतिः।
षडंशो दशभागे वा ब्रूहि त्वं गणितार्थवित् ।। ८६ ॥ ।


| Stanzas 88 and 84 are omitted in B.
0D