पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 गणितसारसङ्ग्रहः

एकांशकयोरनेकशयाश्च एकांशेऽनेकांशेऽपि फले छेदोत्पत्तौ प्रथम सूत्रम्--

इष्टगुणांशोऽन्यांशप्रयुतः शुङ हृतः फलांशेन ।
इष्टाप्तयुतिहरनो हरः परस्य तु तदिष्टहृतिः ॥ ७ ॥ ६

अत्रोद्देशकः ।

रूपांशकयो राश्योः कौ स्यातां हारकौ युतिः पादः ।
पञ्चांशो वा द्विहतस्सप्तकनवकांशयोश्च वद ॥ ८ ॥

द्वितीयसूत्रम् --

फलहारताडितांशः परांशसहितः फलांशकेन हृतः ।
स्यादेकस्यच्छेदः फलहरगुणितोऽयमन्यस्य ॥ ८९ ॥

अत्रोद्देशकः ।

राशिद्वयस्य कौ हारावकांशस्यास्य संयुतिः ।
द्विसप्तांशो भवेद्राहि षडष्टांशस्य च प्रिय ॥ ९० ॥

अर्धत्र्यंशदशांशकपञ्चदशांशुकयुतिर्भवेद्पम् ।
त्यक्ते पञ्चदशांश रूपांशावत्र कौ योज्यौ ॥ ९१ ॥

दलपादपञ्चमांशकविंशानां भवति संयुती रूपम् ।
सप्तैकादशकांशौ क योज्याविह विना विंशम् ॥ ९२ ॥

युग्मान्याश्रित्यच्छेदोत्पत्तौ सूत्रम्-

युग्मप्रमितान् भागानेकैकांशान् प्रकल्प्य फलराशः ।
तेभ्यः फलात्मकेभ्यो द्विराशिविधिना हरास्साध्याः ॥ ९३ ॥


P and B add as another reading
शुद्धं फलांशभक्तः स्वान्यांशयुतो निजेष्टगुणितांशः ।