पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 गणितसारसङ्गहः

दलदलदलसप्तांशं त्र्यंशयंशकदलार्धदलभागम् ।
अर्धज्यंशयंशकपञ्चांशं पञ्चमांशदलम् ॥ १०१ ॥

क्रीतं पणस्य दवा कोकनदं कुन्दकेतककुमुदम् ।
जिनचरणं प्रार्चयितुं प्रक्षिप्यैतान् फलं ब्रूहि ॥ १०२ ॥

रूपाधे त्र्यंशकार्बोधं पादसप्तनवांशकम् ।
द्वित्रिभागद्विसप्तांशं द्विसप्तांशनवांशकम् ॥ १०३ ॥

दवा पणद्वयं काश्चिदानैर्घनूतनं घृतम् ।
जिनालयस्य दीपार्थं शेषं किं कथय प्रिय ॥ १०४ ॥

त्र्यंशाद्विपञ्चमांशस्तृतीयभागात् त्रयादेशषडशः ।
पचाष्टादशभागात् त्रयोदशांशोऽष्टमान्नवमः ॥ १०५ ॥

नवमाच्चतुस्त्रयोदशभागः पञ्चांशकात् त्रिपादार्धम् ।
सक्षिप्याचक्ष्वैतान् प्रभागजातौ श्रमोऽस्ति यदि ॥ १०६ ॥

अत्रकाव्यक्तानयनसूत्रम्-

रूपं न्यस्याव्यक्तं प्राग्विधिना यत्फलं भवेत्तेन ।
भक्तं परिदृष्टफलं प्रभागजातौ तदज्ञातम् ॥ १०७ ॥

अत्रोद्देशकः ।

राशेः कुतश्चिदष्टांशस्यंशपदोऽर्धपञ्चमः।
षष्ठत्रिपादपघांशः किमव्यक्तं फलं दलम् ॥ १०८ ॥

अनेकाव्यक्तानयनसूत्रम्-

कृत्वाज्ञातानिष्टान् फलसदृशी तद्युतिर्यथा भवति ।
विभजेत पृथग्व्यक्तैरविदितराशिप्रमाणानि ॥ १०९ ॥