पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः 49

वायव्युत्तरयोर्युतिरैशानीं स्वत्रिभागयुगहीना ।
दशगुणिताष्टाविंशतिरवशिष्टा व्योम्नि कति कीराः ॥ १६ ॥

काचिद्वसन्समासे प्रसूनफलगुच्छभारनम्रोद्याने ।
कुसुमासवरसरञ्जितशुककोकिलमधुपमधुरानिवननिचिते ॥ १७ ॥

हिमकरधवले पृथुले सौधतले सान्द्ररुन्द्रमृदुतल्पे ।
फणिफणनितम्बबिम्बा कनदमलाभरणशोभाङ्गी ॥ १८ ॥

पाठीनजठरनयना कठिनस्तनहरनम्रतनुमध्या ।
सह निजपतिना युवती रात्रौ प्रीत्यानुरममाणा ।। १९ ॥

प्रणयकलहे समुत्थं मुक्तामयकण्ठिका तदबलायाः ।
छिन्नावनौ निपतिता तत्रर्यशठिकां प्रापत् ।। २० ॥

षड्भागः शय्यायामनन्तरानन्तरार्धमितिभागाः ।
षट्सह्यानास्तस्याः सर्वे सर्वत्र सम्पतिताः ॥ २१ ॥

एकाग्रषष्टिशतयुतसहस्रमुक्ताफलानि दृष्टानि ।
तन्मौक्तिकप्रमाणं प्रकीर्णकं वेत्सि चेत् कथय ॥ २२ ॥

स्फुरदिन्द्रनीलवर्णं षट्पदवृन्दं प्रफुछिनोद्याने ।
दृष्टं तस्याष्टांशोऽशोके कुटजे षडेशको । लीनः ॥ २३ ॥

कुटजाशोकविशेषः षड्गुणितो विपुलपाटलीषण्डे ।
पाटल्यशोकशेषः स्वनवांशोनो विशालसालवने ॥ २४ ॥

पाठल्यशोकशेषो युतस्वसप्तांशकेन मधुकवने ।
पञ्चांशस्सन्दृष्टां वकुलपूर्छमुकुलेषु ॥ २५ ॥

तिलकेषु कुरवकेषु च सरलेखामेषु पद्मषण्डषु ।
वनकरिकपोलमूलेषापि सन्तस्थे स एवांशः ॥ २६ ॥


M reads स् रेत' द् ' .