पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 गणितसारसङ्गहः

अत्र न किञ्चिदपि प्रतिदृष्टं
तत्प्रमितिं कथय प्रिय शीघ्रम् ॥ ३९ ॥

इति मूलजातिः ।

अथ शेषमूलजातौ सूत्रम् –

पददलवर्गयुताग्रान्मूलं सप्राक्पदामस्य कृतिः।
दृश्ये मूलं प्राप्ते फलमिह भागं तु भागजातिविधिः ॥ ४० ॥

अत्रोद्देशकः ॥

गजयूथस्य त्र्यंश '१३षपदं च त्रिसङ्गणं सान ।
सरसि त्रिहस्तिनीभिर्नागो दृष्टः कतीह गजाः ॥ ४१ ॥

निर्जन्तुकप्रदेशे नानाह्मषण्डमण्डितोद्याने ।
आसीनानां यमिनां मूलं तरुमूलयोगयुतम् ॥ ४२ ॥

शेषस्य दशमभाग मूलं नवमऽथ मूलमष्टांशः ।
मूलं सप्तममूलं षष्ठो मूलं च पञ्चमो मूलं ॥ ४३ ॥

एते भागाः काव्यप्रवचनधमप्रमाणनयविद्याः ।
वादच्छन्दोज्यौतिषमन्त्रालङ्कारशब्दज्ञाः ॥ ४४ ॥

इदशतपःप्रभावा द्वादशभदाङ्गशास्त्रकुशलधियः ।
द्वादश मुनया दृष्टाः कियती मुनिचन्द्र यतस मितिः ॥ ४५ ॥

मूलानि पञ्च चरणेन युतानि सानौ
शषस्य पञ्चनवमः करिणां नगाग्रे ।
मूलान पचे सरसाजवन रमन्ते
नद्यास्तटे षडिह ते द्विरदाः कियन्तः ॥ ४६ ॥

इति शेषमूलजातिः ।


स B geade शैघस्य पदे त्रिसंगुणं.