पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 गणितसारसङ्ग्रहः

पञ्चप्यन्ये मत्तमयूरास्सहकारे
रंरम्यन्ते मित्र वदंषां परिमाणम् ।। ६४ ॥

इत्यूनाधिकांशवर्णजातिः ॥

अथ मूलमिश्रजातौ सूत्रम्--

मिश्रकृतिरूनयुका व्यधिका च द्विगुणमिश्रसम्भक्ता ।
वर्गीकृता फलं स्यात्करणमिदं मूलमश्नविधौ ॥ ६५ ॥

हीनालाप उद्देशकः ।

मूलं कपोतवृन्दस्य द्वादशानस्य चापि यत् ।
तयोयोगं कपोताष्षड् दृष्टास्तन्निकरः कियान् ॥ ६६ ॥

पारावतीयसवें चतुर्घनोनेऽपि तत्र यन्मूलम् ।
तह्ययोगः षोडश तद्वन्दे कति विहङ्गाः स्युः ॥ ६७ ॥

अधिकालाप उद्देशकः ।

राजहसनकरस्य यत्पदं
साष्टषष्टिसहितस्य चैतयोः ।
संयुतिर्दकविहीनषद्कृति-
स्तद्रणे कति मरालका वद ।। ६८ ॥

इति मूलमिश्रजाति ।

अथ भिन्नदृश्यजातौ सूत्रम्-

दृश्यांशोने रूपे भागाभ्यासेन भाजिते तत्र ।
यल्लब्धं तत्सरं प्रजायते भिन्नदृश्यविधौ ॥ ६९ ॥


B read8 योगः.