पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः सङ्क्रान्तौ ददता नराधिपतिना षड्भ्यो द्विजेभ्यस्सखे षत्रिशत्रिशतेभ्य आशु वद किं तद्दत्तमुद्रादिकम् ।। १७ ।। इति त्रैराशिकः । । व्यस्तत्रैराशिके तुरीयपादस्योद्देशकः । कल्याणकनकनवतेः कियन्ति नववर्णकानि कनकानि । साष्टांशकदशवर्णकसगुञ्जहेम्नां शतस्यापि ।। १८ ॥ व्यासेन दैध्येण च षट्कराणां चीनाम्बराणां त्रिशतानि तानि । त्रिपञ्चहस्तानं कियन्ति सन्ति व्यस्तानुपातक्रमावइद त्वम् ॥ १९ ॥ इति व्यस्तत्रैराशिकः ।। व्यस्तपञ्चराशिक उद्देशकः । पञ्चनवहस्तविस्तृतदैयां चीनवस्त्रसप्तत्याम् । द्वित्रिकरव्यासायति तच्छृतवस्त्राणि कति कथय ।। २० ॥ व्यस्तसप्तराशिक उद्देशकः । व्यासायामोदयतो बहुमाणिक्ये चतुर्नवाष्टकरे ।। द्विषडेकहस्तमितयः प्रतिमाः कति कथय तीर्थकृताम् ।। २१ ।। व्यस्तनवराशिक उद्देशकः ।। विस्तारदैच्योदयतः करस्य षट्त्रिंशदष्टप्रमिता नवाघ । शिला तया तु द्विषडेकमानास्ताः पञ्चकाघः कति चैत्ययोग्याः ।। २९ ।। इति व्यस्तपथसप्तनवराशिकाः ।।