पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । सनिधीयते यथा । तथैव वेदेपि लोकोद्धारमिच्छुः परमकृपालुः पर- मेश्वरो वेदानां सारभूतं पादत्रयमेकीकृत्यसंहितायां पपाठ । ऋषिभिः साक्षात्कृतधमैः सत्पुत्रैः त्रयीत एवाप्तं व्यक्षरसमष्टिरूपमोमित्यक्षरं भूरादिव्याहृतित्रयं चात्रैव त्रयीसारभूते मन्त्रे निबद्धते । युक्तं चैतत् । रत्नं समागच्छत्तु काञ्चनेनेत्यभियुक्तोनिमूलत्वात् । इत्येकायुक्निकल्प- नामत्रस्य व्याहृतिभिः संयोजने ।। अथवा लोके सारमूतद्रव्याणां घुपभोगकालेऽन्यस्य सामान्यस्य वस्तुनो मिश्रणेन व्यवहरणं क्रियते जनेन न तु केवलानां यथाभि- पग्भिर्मधुरिकासारवारिविन्दुदाने सामान्यजलमिश्रणं क्रियते तेन च तस्यातितेक्षण्यदोषनिवृत्तिपूर्वकं गुणवत्तरत्वं भवति । तद्वदृषिभिरपि श्रुतिसारभूतत्वान्मंत्रस्य प्रभावातिशयेनातिदुस्साध्यतया विश्वोत्तीर्णतया च विश्वमयस्य जनस्य ग्रहीतुमशक्यत्वायाहृतिभिर्विश्ववाचकत्वात्तन्म-