पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । यीभिस्ताभिर्विश्वमयत्वं सम्पाद्योपासनासु प्रयुज्यतेऽसौ मन्त्रः ॥ गाय- त्रीमन्त्रस्य वेदसारत्वं मनुविष्णवादिस्मृत्यादिषु प्रसिद्धमेव । भूरादि- व्याहृतित्रयस्य चाम्नायसारत्वेछान्दोग्योपनिषद्गता श्रुतिः प्रमाण्येनो- पन्यस्यते ॥ स एतां त्रयीविद्यामभितपत्तस्यास्तप्यमानाया रसान्प्रावहद्भू- रिति ऋग्भ्यो भुवरिति यजुर्व्यः स्वरिति सामभ्य इति । व्याहृतीनां संयोजने द्वितीयैषा कल्पना । सर्वस्मिन्क्रियाकलापमनसो व्यग्रतया वाचा मत्रोच्चारणे तदहापोहे क्रिया- पौर्वापर्ये च न्यूनाधिकभावोऽवश्यं संभवति । तेन तथाविधक्रियाक- र्ता पापीयान्भवति । तद्विनाशार्थ यज्ञपूजनादिरूपक्रियाकलापसमाप्तौ । यथायोग्यं श्रुतिव्याहृतिहवनक्षमापणपाठादिकं मुनिविद्वन्नियतं करोति क्रियाकर्ता । एवमेव सर्वासां समन्त्रकाणामुपासनानां मत्रोच्चारणकाले मनसो व्यग्रतयान्यूनाधिकभावः सस्भवितुमर्हति तथात्वेच गायत्रीम-