पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । १० श्रोपासकश्च पापीयान्भवितुमर्हत्यवेति मनसिनिधाय भूरादिव्याहृतित्रय मन्त्राङ्गभावं मुनयो निन्युः । दोषपरिहारफलकाश्च भूरादिव्याहृतयो ब्रह्मणा सम्पादिताः । तत्प्रसङ्गः छान्दोग्योपनिषदि सप्तदशे खण्डे सविस्तरं प्रकाशितः । तद्यथा। तद्यदृचोरिष्येद्भूःस्वाहेति गार्हपत्ये जुहु- यादृचामेव तद्रसेना वीर्येणर्चा यज्ञस्य विरिष्टिं सन्दधाति ॥ १॥ अथ यदि यजुषोरिष्यद्भुवः स्वाहेति दक्षिणानौ जुहुयाधजुषामेव तद्र- सेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टिं सन्दधाति ॥ २ ॥ अथ यदि सामतोरिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टिं सन्दधाति ॥ ३ ॥ सव्याह- तिगायत्रीमत्रजपेन चित्तविक्षेपकृतो दोपस्तत्कृतप्रत्यवायश्च कार्यसिद्धि पूर्वकालिकश्रम इव कार्यसिद्धौ विनाशमुपगच्छति । इति तृतीया युक्तिकल्पना ॥ ३ ॥