पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । १४ क्तिभावपूतेन स्वामिभृत्यभावेन भजामहेवा ॥ प्रसिद्धं हि लोके क्लेशका- ले तदपहत्यैपितरावीश्वरं वा चिन्तयति सर्वो जनः एवमेवानादिकालप्रवा- हपतितोऽविद्योपाधिको जीवोऽहं संसारमरुभ्रमणासह्यपश्चविधक्लेशक्लिष्टः पितृस्थानीयमविद्याभर्जकं ब्रह्माविद्याविनाशाय चिन्तयामि ॥ एतदपि लोके प्रसिद्धं यत्र कापि सद्भक्तिभावपूतः स्वामिभृत्यभावो वर्तते तत्र भृत्यायेष्टाधिकं स्वाधिकारदानमपि नाद्भुतं स्वामिनः का वार्तान्यव- स्तुदानेषु । इत्थमेव जीवायब्रह्मभूयदानं न चित्रमित्यतः तदवाप्तये तदेव भज इति तत्त्वमसीति महावाक्यबोधितार्थसमानतात्पर्यार्थी मत्रपादद्वयार्थ इत्यतो निर्गुणब्रह्मनिरूपणं नास्य मन्त्रस्य विरुद्यते ॥ बुद्ध्यावन्त:करणवर्गचोदकवं चास्य ब्रह्मणो धियो योनः प्रचोदया- दित्यनेन निर्दिश्यते तेन चान्तर्यामिखं सदाहृदयसानिध्यं चास्य गम्य- ते । अविनकृष्टतया ब्रह्मणस्तदुपासनायाः सुसाध्यखमभिव्यज्यते ॥