पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । १७ आदित्यमण्डलान्तर्गतहिरण्यगर्भाभिधानपुरुषलक्षणमायाशवलब्रह्मार्थ- बोधकतास्य मन्त्रस्य यथा । तदिति तदः सर्वनामखात्सर्वसामान्यं जगत्म- काशकतया प्रसिद्धं भर्गो बाह्याभ्यन्तरवर्तिध्वान्तजाड्यविनाशकं स्वप्रकाशं सर्वानुभूतमादित्यमण्डलस्थपुरुषस्वरूपतया केवलौपनिषद्गम्यं तेजोराशिः सवितुः स्वकिरणनिकरपूरितचतुर्दशभुवनस्य तमाकाण्डापहारपूर्वकं तन्म- लीमसीभूतस्य जगतः स्वस्वकार्यतत्परकरणेन दत्तैश्वर्यस्य वा ईदृग्गु- णवतः सूर्यस्य तन्मण्डलान्तर्गतहिरण्यगर्भाख्यपुरुषस्य च संबन्धि वरेण्यं वरणीयं निष्कारणमेव जगतोध्वान्तनिवृत्त्या निर्मलीभावापाद- नेन बुद्धिस्थजाड्यापहारेण धीनिर्मलीकरणेन वा स्पृहणीयम् । देव- स्यानाद्यौषधिगणपाचकतया मृष्ट्यादिक्रीडाशीलस्य शुभाशुभकर्मव्य- वहारसाक्षिणः श्रुतिस्तुत्यस्य सर्वभुवनप्रकाशककान्तिमतः सम्बन्धि भर्गो धीमहीति ध्यानविषयंकरोमि स्वमनसा प्रत्यक्षीकरोमि उपासना-