पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । १६ विषये प्रमाणानि यथा श्रीनिरुक्त थप्रमाध्यायस्य द्वितीये पादे ऋग्य- जुःसामाथर्वात्मकब्रह्मराशेरादित्यान्तर्गतपुरुषदृष्टखमैतरेयकब्राह्मणे श्रुतं । कथं पृथक् पृथक् श्रुतीनामार्षवं कल्पत इत्यनुयोगे सूर्यमण्डले हिर- ण्यगर्भाभिधानपुरुषस्थितिः स्पष्टमभिहिता भवति ऐतरेयकरहस्यब्राह्म- णमप्येतदर्थे प्रमाणं दत्तं तत्रैव एतदनुयोगान्तरसमर्थनग्रंथे बुद्धिदेव- तात्वेन हिरण्यगर्भः क्षेत्रज्ञोऽवस्थितः सर्वभूतानां कर्मविपाकानुसारेण यमर्थ शब्द वा दर्शयति तदितरो विशिष्टकर्मकारी क्षेत्रज्ञो बुद्धिस्थः पश्यतीत्यन्तेन वाक्यजालेन जीवः स्वबुद्धा किमपि न शक्नोति शक्य- ते च तेनबुद्ध्यधिदेवभूतादित्यमण्डलान्तर्गतपुरुषसाहाय्यवत्या धिया सर्वज्ञातुमिति गम्यत इत्यत उचितैवाधिदेवविषयिका प्रार्थना या मत्रतृतीयपादेनाभिधीयते । पुनश्च श्रीनिरुक्ततृतीयाध्यायस्य द्वितीयपादान्त उदाहृता श्रुतिः प्रमाणभूता यथा । यत्र सुपर्णा अमृतस्य भागमनि-