पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । २३ यथाक्रममुपन्यस्यन्ते अनयादित्योपासनया ब्रह्मप्राप्तिर्भवतीत्यत्र वृह- दारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चदशतमं ब्राह्मणं प्रमाणं यथा । हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यध- यि दृष्टये ॥ अत्रार्थः अविद्यया मृत्युं तीर्खा विद्ययामृतमश्नुत इत्युक्तम् येन मार्गेणामृतखमश्नुत इत्युच्यते तदृतं तत्सत्यमसौ स आदित्यः य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे क्षन्पुरुष एतदुभयं सत्यं ब्रह्मोपासीनो यथोक्तकर्मकारी यः सोऽन्तकाले प्राप्तेसत्यात्मानमात्मनः प्राप्तिद्वारं याचते हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयं ज्योति- मयमित्येतत तेन पात्रेण वा पिधानभूतेन सत्यादित्यमण्डलस्थस्य ब्रह्मणो पिहितं छादितं मुखं द्वारं हेपूपन् जगतः पूषणात्पूपा सविता अपावृणु सत्यधर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मस्तसै मह्यम् अथवा यथा भूतस्य धर्मस्यानुष्टातुर्दृष्टये तव