पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । २८ विस्तरमार्यावर्त संक्षेयतः तत्प्रतिनिधि तत्तद्देवतास्थानचिह्नित कश्मी- रदेशं च व्यरचयद्विधिः । इत्थमेव ब्रह्माण्डे ये गुणाः प्रोक्ताः शरीरे ते व्यवस्थिता इत्यादि पौराणिकनयेन प्रमाणितानि चतुर्द- शभुवनोम्भितब्रह्माण्डप्रतिनिधावस्मिन्मनुष्यशरीरे पादादिनाभ्यन्तं पा- तालादिसप्तभुवनानि तत्तद्गुणविशिष्टानि नाभितो ब्रह्मरंध्रान्तं भूरा- दिसप्तलोकानि चतुराननादिदेवसहितानि ब्रह्मणाव्यवस्थापितानि स- न्ति । योगिनश्च तथाखं प्रत्यक्षीकुर्वन्ति । व्यवरन्ति च तत्तल्लो- कस्थदेवैरवाप्नुवन्ति च तां तां सिद्धिमिति ॥ तत्र ब्रह्माण्डान्तर्गतम- हाकाशे सूर्य उद्यन्सर्वाणि भूतानि चेष्टयन्यथोचितकाले तापपर्वादि- दानेन सस्यानि विपाकं नयंस्तेन सर्वप्राणिनो जीवयन्सहस्रपरिमिता- भिर्भाभिः चतुर्दशभुवनानि व्याप्यैकदेशस्थोपि परिचरन्वर्तते । एवमेव प्राणादित्यो हृदयाकाशस्थः सवित्रायते । शरीरे हि प्राणस्यैवादित्य-