पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । २६ खमुपनिषत्सु गीयते । तत्प्रमाणं च मैत्रेयोपनिषदि पष्टप्रपाठके यथा ॥ द्विधा एष आत्मानं बिभर्त्ययं यः प्राणो यश्चासावादित्योऽथ द्वौ वा एतावस्य पन्थाना अन्तर्बहिश्चाहोरात्रेणैतौ व्यावतेते ॥ अवार्थः एषः पूर्वप्रकृत आत्मा वै प्रसिद्धः सर्वश्रुतिषु द्विप्रकारेणात्मानं स्वरूप विभर्ति धत्ते प्रकारभेदं विशदयति यः प्राणो देहे पञ्चधात्मानं वि- भज्यस्थितोस्तीयमेका विधा यश्चासौ ब्रह्माण्डकरण्डे जगदवभासकत- यावस्थितोस्त्यादित्यः सेयमपराविधेत्यर्थः ॥ अध्यात्म प्राणात्मना- धिदेवात्मना ब्रह्मरूपश्चिदात्मा ध्येय इत्युपासनोत्पत्ति सूचयन्नाह अथे. दमुच्यते । अस्यात्मन एतौ द्वौ पन्थानौ विशेषाभिव्यक्तिस्थानौ को अन्तः देहाभ्यन्तरं बहिश्च देहात आध्यात्मरूपो बाटो देशश्चेति प- न्थानांवित्यर्थः एतौ च प्राणादित्यौ अहोरात्रेण अहा राज्या च व्यावर्तेते व्यावर्तनं कुरुत इत्यर्थः ॥ .