पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ गायत्रीमन्त्रार्थविवृतिः । चांशाः षष्ट्या सगुण्यैकविंशतिसहस्राणि षट्शताधिकानि कलारूपेण जायन्ते । एतावत्कलात्मकं सर्व व्योमैकेन हायनेन परिसरति मूर्यः एव- मेवाकाशप्रतिनिधिभूते मनुष्यशरीरे द्वादशदलात्मनः पद्मस्य द्वादशद- लानि मासकलनया परिकल्पयन्ति योगिनः तत्र द्वादशदलं पगं त्रिंशता संगुण्य षष्ट्यधिकानि त्रीणि शतानि संभवन्ति तानि च षष्ट्या संगुण्य पदशताधिकान्येकविंशतिसहस्राणि श्वासोवासरूपाः प्राणगतयो भवन्ति ताभिः प्राणादित्यः शरीरं व्याप्नोति । वर्षपर्यन्तं बाह्यक्रियाभिर्य 'सुकृतमधितिष्टते पुरुषस्तमेवान्तरक्रिययाहोरात्रेणाधिग- च्छतीति ॥ एवं श्रुतियुक्तिभ्यां प्राणस्यादित्यवं साधितं भवति तेनच गायत्रीमत्रेण प्राणादित्योपासना भवितुमर्हत्येव । अस्या उपासनाया बहिरात्मिक्या उपासनायाः श्रेष्ट्यं च वर्तते बाह्यादित्योपासनया यत्पुण्यं संवत्सरेणावाप्यते तत्प्राणादित्योपासनयाहोरात्रेणैव लभ्यत