पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखमिति ॥ स्मृतयोऽपि प्रकृता- र्थविषये प्रमाणतयोपन्यस्ता इति । प्रजापतिशब्देनात्र वेदपुरुषोभिधीयते । प्रमाणतयोपन्यस्तस्मृति द्वयवाक्यान्तर्गतसावित्रीशब्दनिर्देशादस्यमन्त्रस्य सावित्रीत्वमेवास्ति व्याहृतिमेलनेन गायत्रीत्वं भजत्येष मन्त्रः ॥ भवति हि वेदेभिन्नसंहितान्तर्गतानामपि मन्त्राणां परस्परमेलनेनैकमन्त्र- त्वम् । यथा तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयो दिवीव चक्षु- राततमिति मत्रस्य तद्विप्रासो विपण्यवो जागृवांसः समिन्धते विष्णोः यत्परमं पदमिति मन्त्रस्य च परस्परसंयोजनेन विष्णुदैवत एको मन्त्रः सम्भवतीत्यतोस्मिन्मवेपि भिन्नसंहितान्तर्गतानां पादानां सङ्घहे काप्य दृष्ट- चरत्वादिरूपा शङ्का न वर्तते ॥ दरी दृश्यते हि लोकेचैतत् । सार- वस्तूनां रनकल्पानां हस्तगतानां संगृहँकत्र स्थापनं क्रियते भाग्यवता महाजनेन । सद्भिश्च तत्पुत्रैर्यथा संभवमवाप्त रत्नादिवस्तुजातं तत्रैव