पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I t सर्गः ५ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् पूर्वे यत्र समं त्वया रतिपतेरासादिताः सिद्धय- स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपत्रपि तत्रैवालापमावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ २ ॥ तव मनसि हरेरनुरागो वसतु ॥ ५ ॥ अत्र वाक्यौचिती सङ्गीतराजे - 'निःसारुताल- रचितो रागे केदारसंज्ञके । कविनामाङ्कितपदात्पा: स्वल्पतरैश्चितः ॥ ततः पद्यं वि- लासे सोल्लासते जगतीपतेः । इत्थं हरिसमुदयाद्गरुडपदसंशकः प्रबन्धः पृथिवी- भर्त्रा हरिभकन वर्णितः ॥' इति हरिसमुदयगरुडपदनामा दशमः प्रबन्धः ॥ १० ॥ इदानीं त्वय्येव माधवमनोऽस्तीति तां राधां प्रगुणीकरोति । पूर्वे यत्रेति । हे राधे माधवस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे भूयो बाहुल्येन पुनरपि त्वत्कुचकुम्भनिर्भरप- रीरम्भामृतं वाञ्छति । त्वत्कुचयोर्निर्भरं यः परिरम्भः स एवामृतमिव तत्तीर्थादमृत- जलम् । जलं हि कुम्भेनैव ग्राह्यं भवतीत्युक्तिलेशः । किं कुर्वन् । अनिशमनवरतं त्वां घ्यायंस्तवैवालापमन्त्रावलीं जपन् । एकान्तध्यानजपाभ्यां हि देवताप्रतो जाप्रतः पुरः स्फुरत्येव । तस्मिन्निति कस्मिन् । यत्र निकुञ्जमन्मथमहातीर्थे कामतीर्थे पूर्वे र तिपतेः कामस्य त्वयोपलक्षितास्त्वय्येव प्रसन्नाया लभ्याः सिद्धयः समं समकालम- विलम्बेनैव प्राप्ताः। रतिपतेरित्यत्र कामस्याभिलषितस्येति वक्तव्ये रतिग्रहणे तस्यामति- शयितप्रीत्युत्पादनार्थम् । अथवा रतिपतेः कामात्त्वया सहायभूतया समं सिद्धय आ सादिताः । तदाप्तये पुनः सहायभूतां त्वामेव वाञ्छति । अथ च यत्र निकुञ्जदौ का- । ७९ ● ‘कर्तृकरणयोः’ इति सूत्रेण तृतीया ॥५॥ १०॥ पुनः कृष्णस्य राधाविषयिणी मुस्कण्ठां श्रो- केनाइ -- पूर्वमिति । हे सखि, माधवः कृष्णो भूयस्त्वदीयौ यो कुम्भाविव कुचौ स्तनौ तयोनिर्भरं गाढं य: परीरम्भ आलिङ्गनं तदेवामृतं मोक्षस्तं वान्छति । सान्द्रानन्दस- न्दोहाविर्भावजनकत्वेन तत्कुचकुम्भपरिरम्भस्य मोक्षत्वेन निरूपणम् । वेदान्तिनां भा- ट्टानां च परमानन्दावाप्तेरेव मोक्षत्वात् । किं कुर्वन् । तस्मिन्नेव निकुञ्जरूपे मन्मथस्य कामस्याधिष्ठानभूते महातीर्थेऽनिशं निरन्तरं लामेदेष्टदेवतां ध्यायन् । तवैवालापस्त एव मन्त्रास्तेषामेवावलीं पति जपन् । महातीर्थे हेतुगर्भ विशेषणमाह - पूर्वमिति । पूर्वं पुरा यत्र त्वया सह रतिपते: कामस्य चुम्बनालिशनादिरूपाः सिद्धय आसादिता माघ- वेन प्राप्ताः । तथा झटिति वाञ्छितफलप्रदत्वेन महातीर्थे तदपि बोध्यम् । अन्योऽपि साधको मोक्षममृतं वाञ्छन् यत्र सिद्धिं पूर्व प्राप्नोति तत्रैव सिद्धनिकुञ्जदिमहातीर्थे कस्याश्चिद्देवताया मन्त्रावली जपति, तामेव देवतां ध्यायति । अत्रावलीपदोपादानान्माला- मन्त्रत्वमस्य प्रतिपादितम् । तत्प्रयोजनं च सिद्धमुसिद्धत्वादिऋणवनादिशोधनमन्त्रेणैव फल- सामर्थ्य प्रतिपादितम् । तदुक्तं योगरलावल्याम् – 'स्वप्ने पदे स्त्रिया दत्ते (?) मालामन्त्रे तथैव च । वैदिकेषु च सर्वेषु सिद्धादीनेव शोधयेत् ॥' इति । निकुञ्जदिमहातीर्थे मन्त्रादि १ 'नाममन्त्रावलीम्' इति पाठः । Dgilized by Google