पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०२

पुटमेतत् सुपुष्टितम्
८८
गोपालसहस्रनामस्तोत्रम्


कायं --शरीरेण कृतम्। मनसा परानिष्टचिन्तनात्मकं वाचा परानिष्टकथनात्मकं शरीरेण परानिष्टचेष्टात्मकं च यत् पापं तत् सर्वं नश्यति । एवं पापसम्भवं पापादुत्पन्नं पापं च नश्यति ॥ ३ ॥


 सहस्रनामपठनात् सर्व नश्यति तत्क्षणात् ।
 महादारिद्य्रयुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥ ४ ॥

 तदाह-सहस्रनामपठनादिति। महादारिद्य्रयुक्त:--- महता दारिद्य्रेणसमन्वितः यः विष्णुभक्तिमान् विष्णौ भक्तियुक्तः अत एव वैष्णवः ॥४॥


 कार्तिक्या सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
 पीताम्बरधरो धीमान् सुगन्धैः पुष्पचन्दनैः ॥ ५॥

<poem>
   
 कार्तिक्यां रात्रौ कृत्तिकानक्षत्रयुतायां रात्रौ अष्टोत्तरं शतं सम्पठेत्
अष्टोत्तरशतवारं कमेण सम्यक् पठेत् करणत्रयसारूप्येण अक्षरभ्रंशादिकं विना
पठेत् । पाठप्रकारमाह - पीताम्बरेत्यादि । पीताम्बरधरः पीतपट्टवस्त्रधारी
सन् । सुगन्धैः सुरभिगन्धैः पुष्पचन्दनैः पुष्पैचन्दनैश्च पुस्तकं पूजयित्वेत्युतरत्रान्वयः ।
धीमान् – सहसनामपठनविधिज्ञः ॥ ५ ॥

<poem>

 पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।
 राघाध्यानातितो धीरो वनमालाविभूषितः ॥ ६ ॥

 नैवेद्यादिभिश्च पुस्तकं गोपालसहस्रनामग्रन्थं पूजयित्वा। राधाध्यानाङ्कितः. राषायाः ध्यानेन निरन्तरचिन्तनेन अङ्कितः तन्मग्न इत्यर्थः। धीरः अचञ्चलः । वनमाला विभूषितः वैजयन्त्याख्यमालयालङ्कृतः सन् ॥ ६ ॥



 4 b क. सर्वे नश्यन्ति
 4 c क. महादारिद्र
 5 a क. कार्तिक्यां यः पठेत
 5 b क. पठेत् for क्रमात्
 5 d क. सुगन्धपुष्प-
  .ख.घ.सुगन्धिपुष्प-
 6 a. क. पुस्तकं वाचयित्वा च