नामसहस्रं नम्नां सहस्रं पठेत् । ततः --पठनात् सिद्धिः अभीप्सितप्रातिः
प्रजायते-भवति । य: वैष्णव: महानिशायां सततं पठेत, तस्य॥ १० ॥
देशान्तरगता लक्ष्मीः समायाति न संशयः ।
त्रैलोक्ये च महादेवि सुन्दर्यः काममोहिताः ॥ ११ ॥ -
देशान्तरगता – अन्यदेशं प्रति गता, लक्ष्मीः समागच्छति नात्र संशयः । एवं हे महादेवि! त्रैलोक्येऽपि काममोहिताः कामपीडिताः सुन्दर्यः ॥११॥
मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १२ ॥
मुग्धाः सत्यः स्वयं समायान्ति तथा वैष्णवं विष्णुभक्तं सहस्रनामपठितारं भजन्ति प्राप्नुवन्ति । रोगी रोगवान् रोगात् प्रमुच्येत' । बद्धः संसारी बन्धनात् संसारात् मुच्येत् मुक्तो भवेत् ।। १२ ।।
गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।
राजानो वश्यतां यान्ति किं पुनः क्षुद्रमानवाः ॥ १३ ॥
गुर्विणी गर्भिणी पुत्रं जनयेत् प्रसुवीत । कन्या सत्पतिं सन्तं भर्तारं विन्दति प्राप्नुयात् । राजानः वश्यतां अधीनता यान्ति प्राप्नुयुः। क्षुद्रमानवाः अल्पमनुष्याः किं पुनः! वश्यतां यान्तीत्यत्र किमुवक्तव्यमस्ति ॥ १३ ॥
सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ १४ ॥
़ 13 a क. गर्भिणी जनयत् 13 d क. राजा च वश्यतां याति किं पृनः क्षुद्रमानुषाः </poem