पापिने दुष्कृतिने विशेषतः लम्पटाय दुराशायुक्ताय चेदं न प्रकाशनीयं न
दातव्यम् ॥ १७-१८॥
न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शिष्याय शान्ताय विष्णुभत्तिरताय च ॥ १९ ॥
त्रिरुक्त्या शठादिभ्यो दानमत्यन्तनिषिद्धमिति प्रतीयते । शान्तिमते विष्णुभक्ताय चोपदेष्टव्यम् । 'तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचिताय् शमान्विताय ' 'इदं ते नातपस्काय नाभक्ताय कदाचन' इत्यादिकमत्र भाव्यम् ॥ १९॥
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ २० ॥
गोदानादेर्यत् फलं तदस्य स्तोत्रस्य पाठेन लभ्येतेत्यर्थः ॥ २० ॥
मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ।
यद्यद्वाञ्छति चित्तेन तत्तत् प्राप्नोति वैष्णवः ॥ २१ ॥
शुभमोहनादिरूपं फलमपि यदि वाच्छति तदावश्यमेतत्स्तोत्रपाठेन तत् फलमाप्नुयादित्यर्थः ।। २१ ॥
एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ २२ ॥
सुगन्धयुक्तद्रव्यतैलकैः स्नात्वा स्वर्णभूषणदक्षिणाभिः सह ब्राह्मणाय आहारं दत्वा ॥ २२ ॥
19 c क. दयं शान्ताय शिष्याय
20 a b क. गोदानबह्मयज्ञश्च वाजपेयशतं तथा ।