पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१५

पुटमेतत् सुपुष्टितम्

गोपालसहस्रनामस्तोत्रम्

भगवद्गुणरत्नपेटिकाख्यव्याख्यानसहितम्


 पार्वत्युवाच-


 कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् ।
 ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १ ॥

 पार्वती श्रीशङ्करं प्रति उवाच - उक्तवती। रम्ये- रमणीये मनोहरे, कैलासशिखरे --- कैलासपर्वतस्य शिखरे, वर्तमानं शङ्करम् --- सर्वसुखकरम् शिवम्, गौरी- पार्वती, पृच्छति- प्रपच्छ । लकारन्यत्यय आर्षः, वर्तमानसामीप्याद्वा वर्तमानवल्लकारः। किं पप्रच्छ ? तदाह --- ब्रह्माण्डेत्यादिना । ब्रह्माण्डाखिले --- अखिले ब्रह्माण्डे, त्वं नाथ:- ब्रह्माण्डान्तर्वर्तिसकलजन्तूनां पतिरीश्वर इत्यर्थः । ब्रह्माण्डाखिल इत्यत्र अखिलशब्दस्य आहिताग्न्यादिवत् परनिपातः । ब्रह्माण्डेऽखिलनाथत्वमिति पाठेऽप्ययमेवार्थः ! ब्रह्माण्डाखिलनाथस्त्वमिति पाठोऽप्यृजुरेव । सकलब्रह्माण्डनाथत्वे हेतुः सृष्टिसंहारकारक इति । सृष्टेः संहारस्य च कर्तेत्यर्थः । यो हि सृष्टिं संहारं च करोति स किल नाथः । ‘स कारणं करणाधिपाधिपः । (श्वे. उ. ६-९) इत्यादिश्रुतेः ॥१॥

 हेत्वन्तरमाह--


 त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
 नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २ ॥

 1 c. क. ख. ब्रह्माण्डाखिले नाथ त्वम्.
 1 d. क. कारक.
 2 d. ग. महेश्वरः