पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१८

पुटमेतत् सुपुष्टितम्
गोपालसहस्वनामस्तोत्रम्


अत्र  'स्त्रीचापलादेतदुदाहृतं मे
  धर्मं च वक्तुं तव कः समर्थः ॥' (रा. 3-9-33)

इति सीतावाक्यमनुसन्धेयम् ॥ ५॥


 दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
 इदं रहस्य परमं पुरुषार्थप्रदायकम् ॥ ६॥

 दत्ते - अनधिकारिभ्यः उपदिष्टे सति सिद्धिहानिः-फलहानिः निष्फलत्वं स्यात् । तस्मादिदं स्तोत्र यत्नेन गोपयेत् - निगूहेत । इदं परमं रहस्य अत्यन्तं गोपनीयम् । तत्र हेतुः पुरुषार्थप्रदायकं- पुरुषार्थस्य पुरुषेष्यमाणस्य मोक्षपर्यन्तस्य प्रदायकं प्रदातृ ॥ ६ ॥


पुरुषार्थप्रदायकत्वमेव विशदयति

 धनरत्नौघमाणिक्य तुरगं च गजादिकम् ।  ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७ ॥

 गोपालस्तोत्रं स्मरणादेव स्मरणमात्रेण धनं रत्नौघः रत्नसमूहः माणिक्यं अश्व: गजादिश्चेत्येतत् ऐहिकं फलं ददाति -प्रयच्छति । तथा महामोक्षप्रदायकम् --भगवत्प्राप्तिरूपस्य महामोक्षस्य प्रदायकम् । स्वात्मप्राप्तिरूपकैवल्याख्यमोक्षस्य व्यावृत्तये महदिति विशेषणम् ॥ ७ ॥


 तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
 योऽसौ निरञ्जनो देवः चित्स्वरूपी जनार्दनः ॥ ८॥


7 ab.ख. माणिक्यतुरङ्गम्.
7 b ग. ङ. तुरङ्गमगजादिकम्.
8 b. ग. शृणुष्वावहितं प्रिये.