गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे ॥ १७ ॥
हे शिवे-पार्वति, यः गौरतेज:--राघाख्यं श्वेतं तेजः विना श्यामतेज:-श्रीकृष्णाख्यं श्यामलम् तेजः समर्चयेत् -पूजयेत् जपेत् उपांशु स्तुयात ध्यायते वापि - चिन्तयेद्वा स पातकी-पापी भवेत् । राधासहित एव श्रीकृष्णः पूजनीय इत्यर्थः ॥ १७ ॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।
एतैर्दोषैविलिप्येत तेजोभेदान्महेश्वरि ॥ १८ ॥
ब्रह्महा-ब्रह्म हन्तीति ब्रह्महा ब्राह्मणहन्ता। सुरां पिबतीति सुरापी, सुरापानकर्ता। स्वर्णस्तेयी-सुवर्णचोरः चकारात् गुरुस्त्रीगामी । पञ्चम:- तैः सहवासी, एतैः ब्राह्मणहननसुरापानसुवर्णहरणगुरुभार्यागमनरूपैः तत्सहवासरूपेण दोषेण च स:- राधाविनाकृतकृष्णपूजकः, विलिप्येत-विशेषेण सम्बध्येत। तेजोभेदात् -- तेजसः विभजनात् पृथक्करणाद्धेतोः। अविभक्ततेजोयुगलरूपं श्रीराधासमेतकृष्णम् भित्त्वा केवलश्रीकृष्णस्य यः पूजादिकं करोति स पञ्चमहापातकदोषैर्लिप्येतेति भावः । पञ्चमहापातकानि याज्ञवल्क्यस्मृतौ-
'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैस्सह संवसेत् ॥'
इति प्रोक्तानि ॥ १८॥
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९ ॥
तस्मात् – कारणात् ज्योतिः– एकमेव तेजः राधामाधवरूपेण द्विप्रकारमभूत् । इदं तत्त्वं गोपालेन कृष्णेनैव भाषितं--प्रोक्तम् ॥ १९ ॥
18 c क. एतर्दोषैर्विलीयेत.
19 c क. ग. तस्मादहं महा.