पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२५

पुटमेतत् सुपुष्टितम्
११
गोपालसहस्रनामस्तोत्रम्


जनप्रतारणार्थं मिथ्याचारवते चेदं स्तोत्रं न वक्तव्यमिति शेषः । अथ वा शठायेत्यादि चतुर्थी पञ्चम्यर्थे । पूर्वश्लोकस्येन गोपनीयमित्यनेनान्वेति । विपर्यये दोषमाह -- ब्रह्महत्यामवाप्नोतीति । ब्राह्मणहननपापं ब्रह्महत्या । तस्मात् यत्नेन गोपयेत् । अथ वा दाम्भिकायेत्यस्मादनन्तरं दत्त्वेति शेषः । यतः शठादिभ्यो दत्त्वा ब्रह्महत्यामवाप्नोति तस्मात् गोपयेदित्यन्वयः ॥ २३ ॥

 अस्य [१]श्रीगोपालसहस्त्रनामस्तोत्रमहामन्त्रस्य, श्रीनारद ऋषिः, अनुष्टुप्छन्दः, श्रीगोपालो देवता, कामो बीजम्, माया शक्तिः, चन्द्रः कीलकम्। श्रीकृष्णाचन्द्र[२] भक्तिरूपफलप्राप्तये श्रीगोपालसहस्र[३]नामजपे विनियोगः॥

 अस्य स्तोत्रस्य नारद ऋषिः प्रवर्तकः। द्वात्रिंशदक्षरात्मकमनुष्टप्छन्दः वृत्तम् । श्रीगोपालः देवता उपास्यः, कामः बीजं सारभूतम् । माया शक्तिः सामर्थ्यम् । चन्द्रः कीलकः परिमाणम् । क्रीमिति बीजम्, ह्रीमिति शक्तिः ग्लौमिति कीलकम् , इत्याहुः। कृष्णे या भक्तिः तत्प्राप्तिसाधनभूते जपे पाठेऽस्य सहस्रनाम्नः विनियोग इत्यर्थः ॥

 '[४]अथ वा ओं ऐं क्लीं बीजम्, श्रीं ह्रीं शक्तिः श्रीबृन्दावननिवासः कीलकम् , श्रीराधाप्रियं परं ब्रह्मेति मन्त्रः। धर्मादिचतुर्विधपुरुषार्थसिद्ध्यर्थे '[५]श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।

 "[६]ओं नारदऋषये नमः - शिरसि १  ओं अनुष्टुप्छन्दसे नमः - मुखे २


  1. क. ख. घ. ङ, श्रीगोपालसहस्रनामस्तोत्रमन्त्रस्य.
    ग. श्रीगोपालनामसहस्रमन्त्रस्य.
  2. ङ. भक्तिजन्यफलप्राप्तये.
  3. क. नामस्तोत्रपाठे जपे विनियोगः
  4. क. ङ. पुस्तकयो: 'अथवा' इत्यारभ्य 'गोपालचूडामणिः' इत्यन्तो भागो
  5. ख. ग.घ. 'श्रीगोपालसहस्रनामस्तोत्र' नास्ति.
  6. ख. ग.घ. 'ओं नारदऋषये नमः ... ... गोपीजनवल्लभाय स्वाहा’
    इति भागो नास्ति.