वृषभानुभवो भावः काश्यपिः करुणानिधिः।
कोलाहलो हली हाली हेली हलधरप्रियः ॥ २० ॥
वृषभानुभवः --- वृषभतुल्यस्य बलरामस्यानुजः। यद्वा वृषभानोर्भवो जन्मास्येति वृषभानुभव: राधात्मा । 'राधा कृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम् ' इत्युक्तेः । यद्वा वृषभस्य वृषरूपेणागतस्यासुरस्य विषये अनुभवो यस्य सः वृषभानुभवः । प्रपञ्चरूपेण भवतीति भावः। भावयति प्रापयति तत्तत्कर्मफलमिति वा भावः । काश्यपिः-कश्यपस्यापत्यम् । कश्यपस्य अदित्यां वामनरूपेणावतीर्णत्वात् । करुणानिधिः- दयानिधिः । करुणा नाम स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षा । कोलाहल ---कोल: 'कुलसंम्त्याने बन्धुषु च ' इति धातोः भावे धञ् । बन्धुतानुकूलो व्यापारः कोल: तं आसमन्तात् हलति कृषति उत्पादयति भक्तानां स्वविषये इति कोलाहलः । भक्तविषये बन्धुतानानुकूलं व्यापारं करोतीति वा। हली- हलायुधधारी । हाली-हाला मद्यमस्यास्तीति मद्यपः, सन्तुष्ट इत्यर्थः । हेली-शृङ्गारात् भावाच्च जाता: विलासा: हेला: तद्वान् । हलधरप्रियः --- हलायुधधारिणो बलरामभ्य प्रीतिपात्रभूतः ॥ २० ॥
राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१ ॥
राधामुखाब्जमार्ताण्डः .... राधायाः मुखरूपपद्मस्य विकासकः सूर्यः । भास्करः-भाः दीप्तिं करोतीति । सूर्यादितेजसा प्रकाशकानामपि प्रकाशक
20. a ख. घ. ग, वृषभानुर्भवो
ङ भवो भावी
20. c..ग. ङ हली हालो
20. d क. हेला हल
ग. ङ.हली हलधरः
21 a क. मार्ताण्डः
21 b क. ग. ङ. रविजो विधुः
ज व. शिरजो विधूः
21 d ग. वारुणप्रियः