इत्यर्थः। ’तस्य भासा सर्वमिदं विभाति' (मु. 2-2-10 ) इति श्रुतेः ।
रविजाः- सूर्यवंश्यः । विधुः-विष्णुः । 'विधुः श्रीवत्सलान्छनः’
इत्यमरः । चन्द्ररूपो वा 'नक्षत्राणामहं शशी' (गी. 10-21 ) इत्युक्तेः ।
विधिः-हितानुशासकः। विधाता-ब्रह्मादिस्तम्बपर्यन्तसर्वस्रष्टा कर्मणां
तत्फलानां च कर्तेति वा । 'यो ब्रह्माणं विदधाति पूर्वम्’ (श्वे. 6-18 )
वरुणः -- सर्वस्यावारकः सर्वव्यापी । 'वृञ् वरणे' इति धातोः
’कॄवॄदारिभ्य उनन्’ । (उ. सू. 340) इत्युनन् प्रत्ययः । 'येनावृतं खं च दिवं
महीं च' (ते. ना. 3) इत्यादिवचनमत्रानुसन्धेयम् । यद्वा वरुणः प्रचेतोरूपः ।
'वरुणो यादसामहम् ' (गी. 10-29) इति गीतावचनात् । वारुणः
वरुणस्यापत्यं वसिष्ठोऽगस्त्यो वा तद्रूप इत्यर्थः । 'वारुणीप्रियः
वारुणी दूर्वासुरा वा सा प्रिया यस्य सः । दूर्वादलप्रतिमक्रान्तियुक्तलक्ष्मीप्रिय
इति वा ॥२१॥
रोहिणीहदयानन्दो वसुदेवात्मजो बली ।।
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२ ॥
रोहिणीहृदयानन्दः -- रोहिण्याः हृदयस्य आनन्दनः । रोहिणी बलरामस्य माता । वसुदेवात्मजः-----वसुदेवस्य पुत्रः | बली--बलरामः नीलाम्बरः--नीलमम्बरं यस्य सः । रोहिणेयः--रोहिणीपुत्रः । जरासन्धवधः --- जरासन्धस्य हन्ता । अमलः- निर्दोषः ॥ २२ ॥
नागो नवाम्भो विरुदो वीरहा वरदो बली।
गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३ ॥
22 ab. क. हृदयानन्दवसु
ख.ग.ङ, हृदयानन्दी
22 b. ख. बलि:
ङ. वसुदेवसुतो बली
22 d ग. जरासन्धवधोत्सुकः
23.a क.ग. ङ. अवाम्भो
ङ . विरुहो
-- .शिरोडली
.