भक्तानुकारी-भक्तानुसारी भक्तानामाज्ञापरिपालकः।
'सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत' (गी.1-21) इत्यर्जुनेनोक्तो भगवान् तथैव
चक्र इत्यादिकमत्र भाव्यम् । भगवान् --
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूपषङ्गुणपरिपूर्णः । केशवः – कः ब्रह्मा ईशः रुद्रः
एतौ द्वौ अङ्गभूतौ अस्य स्त इति केशवः ।
‘क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गे सम्मूतौ तस्मात् केशवनामवान् ॥'
इति पौराणिक निर्वचनम् । केशः प्रशस्तस्निग्धनीलकुटिलकुन्तलः अस्यास्तीति वा केशवः । 'केशाद्वोऽन्यतरस्याम् । (पा.सू. 5-2-109) इति सूत्रेण केशशब्दात् प्रशंसायां मत्वर्थीयो वप्रत्ययः । केशिनामकासुरहन्तृत्वाद्वा केशवः ।
'यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात् केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥'
(वि. पु. ५-१६-२३)
इति पौराणिकं निर्वचनम् । बलधारकः-- बलं पौरुषं धारयतीति धारणसामर्थ्यवान् । 'यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः' (गी. 15-17)। अचलधारक इति पाठे अचलस्य गोवर्धनपर्वतस्य धारयितेत्यर्थः । केशिहा- केशिनामकमश्वरूपिणमसुरं हतवान् । मधुहा- वेदापहारिणं मधुनामानमसुरं हतवानिति मधुहा । मोही-मोहः भक्तेषु प्रीतिरस्यास्तीति । वृषासुरविघातकः-- वृषरूपिणः असुरस्य हन्ता ।। २९ ॥
अघासुरविनाशी च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युमहामखी ॥ ३० ॥
अघासुरविनाशी --अघनामकस्यासुरस्य हन्ता । भागवते दशमस्कन्धे द्वादशेऽध्याये अघासुरवृत्तान्तः द्रष्टव्यः । पूतनामोक्षदायकः
30 a क.ङ.अघासुरविधाती-
30 d.क ख. ङ कंसमृत्युर्महामखी