पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४७

पुटमेतत् सुपुष्टितम्
३३
गोपालसहस्रनामस्तोत्रम्



 कमला कमलाक्षश्च कमलामुखलोलुपः।
 कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३ ॥

 कमलाकमलाक्षः कमले पद्मे इव अक्षिणी यस्य सः कमलाक्ष: कमलासहितः कमलाक्षः कमलाकमलाक्षः । ’तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' (छा. 1-6-6 ) इति श्रुतिः । कमलीकमलाक्ष इति पाठे तु कमली - कमला लक्ष्मीरस्यास्तीति कमली लक्ष्मीपतिः। कमलाक्ष:-- पद्मतुल्यनेत्रः । कमलामुखलोलुपः--कमलायाः लक्ष्म्याः मुखे लोलुप: अत्यन्तेच्छावान् । कमलाव्रतधारी -- कमलाया: यत् व्रतं पत्यौ नारायणे एवं प्रीतिरूपं तत् धारयतीति तादृशः । यथा लक्ष्म्याः पत्यावेव प्रीतिः नान्यत्र, एवं विष्णोरपि कमलायामेव प्रीति: नान्यस्यामित्यर्थः। कमलाभः -.. कमलवदाभातीति । पद्मतुल्यकान्तिरित्यर्थः । पुरन्दरः ---- असुरपुराणि दारयतीति तादृशः । 'वाचंयः पुरन्दरौ च' (पा. सू 6-3-69) इति पाणिनिः ।। ३३ ।।


 सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः।
 तारकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४ ॥

 सौभाग्याधिकचित्तः - अधिकसौभाग्ययुक्तं चित्तं यस्य सः भक्तेष्वनुग्रहशीलं मनो यस्येत्यर्थः । चित्तस्य सौभाग्यमत्रानुग्रहशीलत्वम् । महामायी - अभक्तजनमोहिनी तिरस्करिणीवत् आत्मस्वरूपाच्छादिका माया अस्येति महामायी । 'नाभिजानाति गुणमायासमावृतः' (गी. 7-25) इति गीतायाम् । महोत्कट:--- भयङ्करः शत्रूणाम् । मदोत्कट इति पाठे मदेन उत्कटः । तारकारिः-- तारकासुरस्य शत्रुः निहन्ता । ताटकारिरिति पाठे ताटकायाः संहर्ता। सुरत्राता सुराणां देवानामसुरराक्षसादिभ्यः रक्षकः ।


 33 a क. घ. ङ. कमली कमलाक्षश्च
 33 b ङ मुखलोचनः
 33 d. ङ कमलाक्षः
 34 b क. मदोत्कट
:  34 c क. ङ. ताटकारिः