पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४९

पुटमेतत् सुपुष्टितम्
३५
गोपालसहस्रनामस्तोत्रम्।


इति रामायणे । वारिधिबन्धनः- समुद्रसेतुकर्ता । खरदूषणसंहारी- खर-दूषणनामकयोः राक्षसयोः संहर्ता | साकेतपुरवासवान् - साकेतपुरेऽयोध्यानगर्यां वासोऽस्यास्तीति ॥ ३६॥


 चन्द्रावलीपतिः कूलः केशिकंसवधोऽमलः ।
 माधवो मधुहा माध्वी माध्वीको माधवो विभुः ॥ ३७ ॥

 चन्द्रावलीपतिः---चन्द्रावलीनामिकायाः गोपिकायाः भर्ता, पालको वा। कूलः कूलसदृशः संसारार्णवपारभूतः । कूलं यमुनातटं क्रीडास्थानत्वेनास्यास्तीति वा । केशिकंसवधः -- केशिनामकस्याश्वरूपिणोऽसुरस्य कंसस्य च विनाशकः । अमलः हेयसम्बन्धलेशरहितः । माधव:-मायाः श्रियः धवः पतिः। 'अस्येशाना जगतो विष्णुपत्नी' (तै. सं. 4-19) इति श्रुतिः । मधुविद्याबोध्य इति वा । 'असो वा आदित्यो देवमधु' (छा.3-1-1) इत्यादिना प्रस्तुता मधुविधा छान्दोग्ये । मधुहा- मधुनामानमसुरं हतवान् । माध्वी--मधुवत् परमभोग्यभूतः । माध्वी - मधुरता आस्यास्तीति माध्वी। 'व्रीश्चादिभ्यश्च' (पा.सू. 5-2-116) इतीकारान्तादपीनिः । माध्वीक: - समानोऽर्थः । मधुपुष्पजातं मद्यं माध्वीकं तत्पेयमस्यातीति वा। माधवः -- मौनेन ध्यानेन योगेन सम्पन्नः। 'मौनात् ध्यानाच्च योगाच्च विद्धि भारत माधवम् । (महा. उद्योग. 70-4) :--विभुःदेशपरिच्छेदरहितः ॥ ३७॥


 मुञ्जाटवीगाहमानः धेनुकारिर्धरात्मजः ।
 वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८ ॥

 मुञ्जाप्रचुरमरण्यं गोचारणार्थं प्रविशन् मुञ्जाटवीगाहमानः। मुञ्जाटवीविहारवृतान्तः भागवते दशमस्कन्धे एकोनविंशेऽध्याये । धेनुकारिः- धेनुकनाम्नोऽसुरस्य संहर्ता । भागवते दशमस्कन्धे पञ्चदशेऽध्याये धेनुकासुर-


 37 d ख.घ. माधवो मधुः
 38 a क मुञ्जाटवीगारुमानो